________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २४.]
भट्टभास्करभाष्योपेता
माकिनों अघशस ईशत । उपयामगृहीतोसि दे॒वाय॑ त्वा सवि
त्रे ॥ २५॥ इत्यघ- सः । ईशत । उपयामगृहीत इत्युपयाम-गृहीतः । असि । देवाय । त्वा । सवित्रे ॥ २५॥
अद॑ब्धभिस्त्रयोविशतिः ॥२४॥
ईदृशमस्मदीयं स्वर्गस्थानं रक्षेत्यर्थः । हिरण्यजिह्वस्त्वं, रसाहरणसाधनतया जिह्वास्थानीया रश्मयो जिह्वा उच्यन्ते, हिरण्यस्वभावाः क्रमणशीलाः जिह्वा यस्य तादृशस्त्वं रक्ष । हर्य गतिकान्त्योः, 'हर्य तेः कन्यन् हिर च' इति कन्यन्प्रत्ययः । किञ्चनः अस्माकं कश्चिदप्यघशंसः अघे शंसनमभिलाषो यस्य तादृशो माकिरीशिता मा ईशिष्ट । माकिरिति छान्दस उपजनः ; निपातान्तरं वा, यथाह गणकारः-'यत्र माकिनकिर्नभ' इति । ईष्टेर्लङि विकरणव्यत्ययेन च्लेरङादेशः । 'अनुदात्ते च कुधपरे । इति संहितायां प्रकृतिभावः । 'द्वयचोतस्तिङः' इति रक्षेत्यस्य दीर्घः । इत्थं प्रार्थयमानानामस्माकं न कश्चिदप्यनिष्टकृत्स्यादित्यर्थः ॥ 'उपयामगृहीतोसीत्यादि पूर्ववत् ॥
इति चतुर्थे चतुर्विंशोनुवाकः.
For Private And Personal