SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 68. तैत्तिरीयसंहिता का. १: प्र. ४. अदब्धेभिस्सवितः पायुभिष्ट्व५ शिवेभिरद्य परि पाहि नो गयम् । हिरण्यजिह्वस्सुविताय नव्य॑से रक्षा 'अदब्धेभिः।सवितः।पायुभिरिति पायु-भिः। त्वम् । शिवभिः। अद्य । परीति । पाहि । नः। गर्यम् । हिरण्यजिह्व इति हिरण्य-जिह्वः । सुवितार्य । नव्य॑से । रक्ष । माकिः । नः । अघशस . 'सावित्रस्यैव ग्रहणविकल्पः पूर्वेण सह विकृत्यर्थः-अदब्धेभिरिति चतुष्पदया त्रिष्टुभा ॥ हे सवितः अद्य अस्मिन्नहनि नः अस्माकं गयं गृहं परिपाहि सर्वतो रक्ष अदब्धेभिः अदब्धैः केनाप्यहिंसितैः, क्वचिदप्यप्रतिहतैर्वा, पायुभिः पालनैः प्रजानां रसानाम् । त्रिभिर्वारश्मय उच्यन्ते । शिवेभिरिशवैश्शान्तकलुषैः पावनैरिति यावत् । 'बहुलं छन्दसि' इत्यैसभावः । पायुभिरित्यत्र 'कृपावानि' इत्यादिनोण्प्रत्ययः, 'युष्मत्तत्ततक्षुष्वन्तः पादं ' इति संहितायां भिसस्सकारस्य षत्वम् । एवमैहिकभोगा स्थानगृहस्य रक्षा प्रार्थिता । आमुष्मिकसुखस्थानमधुना प्रार्थयतेसुविताय सुष्टु इताय प्राप्ताय स्थानाय, सुकतेन प्राप्तायेति यावत् । 'तन्वादीनां छन्दसि बहुलम्' इत्युवङादेशः, 'सूपमानात्तः' इत्युत्तरपदान्तोदात्तत्वम् । नव्यसे नवतराय सर्वदाभिनवाय । ईयसुन ईकारस्य यकारस्य वा छान्दसो लोपः। खि-कसुख. *ख-प्रजानां र[स]स्यानां. स्य यकारश्चान्दस: For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy