________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
10
तैत्तिरीयसंहिता
[का. १. प्र. ४.
हिरण्यपाणिमूतये सवितारमुप ह्वये । स चेता देवा पदम् । उपयामगृहीतोसि देवार्य त्वा सवि
त्रे ॥ २६ ॥ 'हिर॑ण्यपाणिमिति हिर॑ण्य-पाणिम् । ऊतये। सवितारम् । उपेति । ह्वये । सः । चेत्तो । देवा । पदम्। उपयामगृहीत इत्युपयाम-गृहीतः । असि । देवार्य । त्वा । सवित्रे ॥ २६ ॥
हिरण्यपाणिं चतुर्दश ॥ २५ ॥ 'पुनश्च सावित्रं गृह्णाति-हिरण्यपाणिमिति त्रिपदया गायत्र्या ॥ पूर्ववद्विकल्प एव । हिरण्यस्य विकारः कटककेयूराङ्गलीयादीनि आभरणानि पाण्योः यस्य स हिरण्यपाणिः । समुदायविकारषष्ठया बहुव्रीहिर्वाचोत्तरपदलोपश्च । यद्वा-रसहरणशीलाः पाणयो रश्मयो यस्य । हितरमणीयपाणिर्वा । तं हिरण्यपाणि सवितारमुपह्वये मनसा उपेत्याह्वयामि उतये अवनाय तर्पणाय वा । 'ऊतियूति ' इंति क्तिन उदात्तत्वम् । कः पुनस्तस्य विशेष इत्याह-स हि देवस्सविता अस्माकं पदमास्पदं स्थानमित्यर्थः । कीदृशः? चेत्ता ज्ञाता, रक्षाविधानोपायज्ञः । साधुकारिणि त्रन्, व्यत्ययेनेडभावः । देवता चास्माकम् ॥ उपयामगृहीतोसीत्यादि पूर्ववत् ॥
इति चतुर्थे पञ्चविंशः.
For Private And Personal