SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir "66 तैत्तिरीयसंहिता [का. १. प्र. ४. वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्य सावीः। वाम स्य हि क्षयस्य देव भूरैया धिया 'वामम् । अद्य । सवितः । वामम् । उ । श्वः । दिवेर्दिव इति दिवे-दिवे । वामम् । अस्मभ्यमित्यस्मभ्यम् । सावीः। वामस्य । हि। क्षयस्य । देव । भूरैः । अया । धिया । वामभाज इति _ 'अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति-वाममद्य सवितरिति चतुष्पदया त्रिष्टुभा ॥ वाममुश्व इति प्रथमः पादस्समाप्यते । हे सवितः अद्य अस्मिन्नहनि यहामं वननीयं मङ्गळं तदेव सावीरिति वक्ष्यमाणेन सम्बन्धः । वाममुश्वः आगामिन्यप्यहनि वाममेव । उकारस्समुच्चये, श्वोपीति । अवधारणे वा, वाममेवेति ।। किं बहुना-दिवेदिवे अहन्यहनि अस्मभ्यं वाममेव सावीः सुष्टु प्रेरय अनुजानीहीत्यर्थः । षूङ् प्रेरणे, 'छन्दसि लुङ्किटः' इति लुङि 'बहुलं छन्दस्यमाङयोगेपि ' इत्यडभावः । दिवेदिव इति सप्तम्यर्थे चतुर्थी, ‘उडिदम्' इति विभक्तयुदात्तत्वम् । तादर्थे वा चतुर्थी, दिवसाय सर्वदिवसार्थ मङ्गळस्य अनुज्ञां कुरु । किञ्च-अया धिया अनया बुद्ध्या वामप्राप्तिमाशासानया, तादृश्या वामभाजस्स्याम तादृश्या वाम भनाम । कीदृशम् ? वामस्य सर्वाङ्गीणमङ्गलस्य भूरेरनल्पस्य क्षयस्य निवासस्य । 'क्षयो निवासे' इत्याद्युदात्तत्वम् । ईड For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy