SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 64 'तैत्तिरीयसंहिता का. १. प्र. ४. तरासत् । विवस्व आदित्यैष ते सोमपीथस्तेन मन्दस्व तेन तृप्य त्-तरा । असत् । विवस्वः। आदित्य । एषः। ते। सोमपीथ इति सोम-पीथः । तेन । मन्दस्व । तामिति । वरिवो धनं, तस्य वेदयित्री लम्भयित्री वरिवोवित् । विन्दतेय॑न्तात्विपि, 'बहुलं संज्ञाछन्दसोः' इति णिलुक् , ततोतिशायने तरप्प्रत्ययः । ज्ञातुरेव हि मतिर्वरिवोवित्तरा भवति । तस्माद्या ईदृशी मतिर्भवति सा सुमतिरस्मानावर्ततामिति ॥ इमामनुद्रुत्योपयामगृहीतोस्यादित्येभ्यस्त्वेति गृह्णाति ॥ 'एनमुपांशुसवनेन श्रीणाति-विवस्व इति ॥ हे विवस्वः, विव इति धननाम, तद्वान्विवस्वान् 'ततो विवस्वानादित्योजायत '* इति य उच्यते । रश्मिलक्षणैर्धनैस्तद्वान् । 'मतुवसोः' इति रुत्वम् । आदित्य अदितेः पुत्र । ' नामन्त्रिते समानाधिकरणे' इति पूर्वस्याविद्यमानत्वनिषेधाद्वितीयं निहन्यते । एष ते तव सोमपीथः सोमपानम् । 'पातृतुदिवचि' इत्यादिना थक्प्रत्ययः । तेनानेन मन्दस्व मादयस्व तव भ्रातृन् । 'तस्यै चत्वार आदित्या अजायन्त '* इति चत्वार आदित्या बभूवुः, तेषां चैको विवस्वान्, य इहामन्त्र्यते । 'योतो जायाता अस्माकं स एकोसत् '* इत्यदितिं प्रथमजा आदित्याः प्रार्थयांचक्रिरे । तस्मान्मन्दस्वेति मादयस्वेति व्याख्यायते । मदिरतुतिमोदमदस्वमगतिषु । तेन सोमपीथेन त्वमपि तृप्य तृप्तो भव । ते तव . *सं-६-५-६. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy