SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु २२.] भभास्करभाष्योपेता मृडयन्तः । आ वोर्वाची सुम तिर्ववृत्याद होश्चिद्या वरिवोविअर्वाची । सुमतिरिति सु-मतिः । ववृत्यात् । अहोः । चित् । या । वरिवोवित्तरेति वरिवोविप्रत्याययतु । किञ्च हे आदित्यासः आदित्याः अस्मान्मृडयन्तस्सुखयन्तो भवत । असुन्, आमन्त्रितस्याविद्यमानत्वात्तिङन्तं न निहन्यते । 'छन्दस्युभयथा' इति शतुरार्धधातुकत्वे 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वाभावः । किञ्च-वः युप्माकं या सुमतिः शोभनात्मिकानुग्रहपरा मतिः सार्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । वृतेर्व्यत्ययेन परस्मैपदम्, लिङि यासुट् , ' बहुलं छन्दसि ' इति शपश्नुः । अर्वागञ्चतीत्यर्वाची, ऋत्विगादिना क्विन्, 'अञ्चतेश्वोपसङ्ख्यानम् ' इति ङीप् , 'मक्तिन्व्याख्यान ' इत्यादिना सुमतिशब्दस्योत्तरपदान्तोदात्तत्वम् । पुनरपि सुमतिर्विशेष्यते-या युष्माकं सुमतिः अंहोः हननशीलस्य दुरात्मनः चित् स्ववच्छेत्री । छिदेः कर्तरि विप् , आदिवर्णव्यत्ययः । हन्तीत्यंहुः, हन्तेरौणादिक उप्रत्ययः । आद्यो हकारोन्तेवतिष्ठते, नकारस्यानुस्वारः । यद्वा-अहि गतौ, स एव प्रत्ययः । गत्यर्थाश्च बुद्ध्यर्थाः । पुरुषस्य या चित् चेतिः । चेततेः क्विप् । ज्ञाता हि मतिस्सुमतिर्भवतीति भावः । व्युत्पत्तिद्वयेपि चिच्छब्दस्यानुदात्तत्वं मृग्यम् । अथ ब्रूमः-चिदिति निपातः चादित्वादनुदात्तः, अवधारणे वर्त ते, इवार्थे वा । अंहोरेव ज्ञातुरिव वा या मतिः सा आवर्ततामिति । वरिवोवित्तरा च या मतिरसत् भवेत् । अस्तेर्लेडन्तस्य अडागमः । सा आवर्त For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy