________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २२.]
भट्टभास्करभाष्योपेता
61
तोस्यादित्येभ्यस्त्वा । कदा चन प्र युच्छस्युझे नि पासि जन्मनी ।
तुरीयादित्य सर्वनन्त इन्द्रियमा 'कदा । चन । प्रेति । युच्छसि । उभे इति । नीति। पासि । जन्मनी इति । तुरीय । आदित्य । सव॑नम् । ते । इन्द्रियम् । एति । तस्थौ । अमृतम्।
'शृतातंक्येन श्रीणाति---कदा चन प्र युच्छसीति पथ्ययैव पूर्वोतया । अत्र तु तृतीयपादः पञ्चाक्षरः । आदित्यग्रह एवात्रामन्त्र्यते । हे ग्रह कदाचिदपि प्रयुच्छसि न युच्छसि । युच्छप्रमादे । कस्यां चिदप्यवस्थायां स्वकार्य प्रति प्रमादं न करोषीत्यर्थः । यागसाधनमेव स्वकार्यमस्य । अत्र धात्वर्थस्य निवृत्ति प्रशब्द आचष्टे, यथा प्रस्मरणं प्रस्थानं प्रपूरणमिति । यद्वा-किंशब्दोत्र गम्यमानार्थो न प्रयुज्यते । किं कदाचित्त्वं प्रयुच्छसि प्रमाद्यसि, न खल्वेतत्सम्भाव्यते, सर्वदावहितत्वादित्यर्थः । तदेवावधानं दर्शयितुमाह-उभे खलु जन्मनी वर्तमानभविष्यल्लक्षणे निपासि नियमेन रक्षसि, ऐहिकादामुष्मिकाच्चानाद्यजमानं रक्षसीत्यर्थः । अधुनादित्यग्रहमेव चतुर्थसवनत्वेन रूपयनामन्त्रयते-- हे आदित्य । दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' । आदित्यग्रह तुरीय चतुर्थ चतुर्थसवनात्मन् । आदित्यग्रहमेव चतुर्थं सवनं रूपयित्वा स्तौति । तृतीयसवनात्प्रागेवेदं चतुर्थं सवनं सम्पद्यते, यदिदं तव ग्रहणमिति । अस्य च सवनस्य सवनान्तरेभ्यो विशिष्टतामाह-ते तव खल्विदं सवनमिन्द्रियं इन्द्रजुष्टम् ।
For Private And Personal