________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
60
तैत्तिरीयसंहिता
[का. १. प्र..४.
तेदानन्देवस्य॑ पृष्यते। उपयामगृहीमघवन्निति मघ-वन्न् । भूयः । इत् । नु । ते । दानम् । दे॒वस्य॑ । पृच्यते । उपयामगृहीत इत्युपयाम-गृहीतः । असि । आदित्येभ्यः । त्वा ।
शुषे, सश्चतिगीतकर्मा, दाशुषे हवींषि दत्तवते सश्चसि दित्सया। 'क्रियाग्रहणं कर्तव्यम् ' इति संप्रदानत्वम् । दातुमिति वा पदाध्याहारः । दाशुषे दातुं सश्चसि धनानि दातुं दाशुषस्सकाशं त्वमेव सश्चसि । किमुच्यते सरुद्ददासीति-हे मघवन् तव देवस्य देवनादिगुणयुक्तस्य दानं भूयोप्युपष्टच्यते उपगृह्यते पुनः पुनरपि समुपपाद्यते । न सरुद्दत्तमिति स्मर्यते, किन्तु पुनः पुनर्दीयत एवेति । एची सम्पर्के । अत्र भूय इन्नुत इति चतुर्थः पादः । 'प्रसमुपोदः पादपूरणे' इत्युपशब्दस्य द्विवचनम् । 'अनुदात्तं च' इति द्वितीयो निहन्यते । इच्छब्दोवधारणार्थः उपप्टच्यत एव । नुशब्दः प्रसिद्धौ ; नन्वेवं खलु सर्वदा क्रियते । नु इति पुराणवचनो वा, पुराणोयं तव स्वभावः । द्वितीय इच्छब्दोप्यर्थः, भूयोपि । द्वितीयो नुशब्दो हेतौ, यस्मादेवं तस्मान्न कदा चन स्तरीरसीति । तस्मादेवंप्रभावस्त्वमस्मानप्यनुगृहाणेत्याशिषा समाप्यते ॥
इमामनुद्रुत्योपयामगृहीतोस्यादित्येभ्यस्त्वेति गृह्णाति । 'अदितिः पुत्रकामा '* इत्यादि ब्राह्मणम् ॥
*सं. ६-५-६.
For Private And Personal