________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
58
तैत्तिरीयसंहिता
[का. १. प्र. ४.
द्रियग्वावृधे वीर्यायोरुः पृथुस्सुक
तः कर्तृभिर्भूत् । उपयामगृहीतोवीर्यांय । उरुः । पृथुः । सुकृत इति सु-कृतः । कर्तृभिरिति कर्तृ-भिः । भूत् । उपयामगृहीत इत्युपयाम-गृहीतः । असि । महेन्द्रायेति महाछान्दसं निष्ठानत्वम् । तदस्य नास्तीत्यमिनः, न ह्यस्यैतादृग्बलमस्तीति निश्चेतुं शक्यते । यद्वा-सहोभिरमिनः सङ्गतः । अम गत्यादिषु, 'बहुलमन्यत्रापि ' इतीनच्प्रत्ययः । ईदृश इन्द्रो वीर्याय वीर्यार्थम् । यद्वा-कर्म वृत्रवधादि तदर्थम् । अस्मद्यक् वावृधे वर्धताम् । 'छन्दास लुङ्किट: ' इति लिट् , तुनादित्वाद्दीर्घः । अस्मास्व*ञ्चतीत्यस्मयक् । 'विप्वग्देवयोश्च ' इत्ययादेशः, क्रियाविशेषणत्वान्नपुंसकत्वम् । अस्माभिर्यजमानैर्दत्तानि हवींषि गृहीत्वा वर्धतामिति यावत् । किञ्चकर्तृभिः परिचरद्भिः अस्माभिर्यजमानैरिन्द्रः उरुविस्तीर्णो बलेन, पृथुः प्रथितस्सर्वत्र यशसा, सुकृतः सुष्ठुकृतः वशीकृतश्च, भूत् भवतु । भवतेलुङि पूर्ववच्छपो लुक् , 'भूसुवोस्तिङि' इति गुणाभावः । यद्वा-कर्तृभिरस्माभिः सुकृतस्सम्यक्रुतीयमुरुः पृथुश्च भवतु । ‘सुः पूजायाम् ' इति कर्मप्रवचनीयत्वम् । 'स्वती पूजायाम् ' इति प्रादिसमासः, तेन गतित्वाभावात् 'सूपमानाक्तः' इत्युत्तरपदान्तोदात्तत्वाभावे अव्ययपूर्वपदप्रकृतिस्वरत्वमेव भवति ॥
*क. ख. ग-अस्मान,
For Private And Personal