________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २१.]
भट्टभास्करभाष्योपैता
महा५ इन्द्रो नृवदा चर्षणिप्रा उत हिबहाँ अमिनस्सहोभिः । अस्म'महान् । इन्द्रः । नृवदिति नृ-वत् । एति । चर्षणिप्रा इति चर्षणि-प्राः । उत । द्विवहुए इति द्वि-बाँः । अमिनः । सोभिरिति सहः-भिः । अस्मद्रियगित्यस्म-द्रियक् । वावृधे ।
'बृहत्प्टष्ठपक्षे माहेन्द्रं गृह्णाति-महा५ इद्रो नृवदिति . चतुष्पदया त्रिष्टुभा ॥ महानयमिन्द्रः यश्चर्षणिप्राः, चर्षणयो मनुष्यास्तेषां पूरयिता कामैः । प्रा पूरणे, 'आतो मनिन्वनिब्वनिपश्च' इति विच्प्रत्ययः । नृवत् मनुष्यवत् , यथा मनुष्या आराधयितॄन् कामैः पूरयन्ति तद्वत् । यद्वा-चर्षणीनां चर्षणवतामाचारवतां कामैः पूरयिता । समन्तादित्यर्थे आकारः, सर्वत्र पूरयिता, तस्मान्महान् । यहा-नृवत् एकस्मिन्निव नरे समन्तात् सर्वेष्वपि लोकेषु चरणशीलानां पूरयिता, ततोयं महानिति । चरेरनिप्रत्ययो बहुलवचनात्सुडागमः । यहा-रुषेरादेश्च चः ' इति कृपेरेतद्रूपम् । आङापि कृष्यर्थो विशेष्यते । उदातश्रुते. श्वायमसमस्त एव कृप्यर्थं विशिनष्टि । हविःप्रदानादिना आकर्षवतां वशीकुर्वतां कामैः पूरयितेति । उत अपिच द्विबर्हाः द्वयोर्लोकयोवृहितः प्रवृद्धस्तेजसास्मिन्नमुष्मिश्च । बहेरनिदितोसुन्प्रत्ययः, 'परादिश्छन्दसि बहुलम् ' । पुनश्च विशेष्यते---स. होभिर्बलैः अमिनः अपरिच्छेदः । मानं मिनम् । मातर्निष्ठा,
For Private And Personal