________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
54
तैत्तिरीयसंहिता
[का. १. प्र. ४
मरुत्वा५ इन्द्र वृषभो राय पिबा सोममनुष्वधम्मदाय । आ सिञ्च
स्व जठरे मर्ध्व ऊर्मिन्त्व५ राजासि 'मरुत्वान् । इन्द्र । वृषभः । रणाय । पिव। सोम॑म् । अनुष्वधमित्यनु-स्वधम् । माय ।
तृतीयं मरुत्वतीयं गृह्णाति-मरुत्वानिन्द्रेति चतुष्पदया त्रिष्टुभा ॥ है इन्द्र यस्त्वं मरुत्वान् वृषभश्च स त्वं रणाय सङ्गामाय पिब सोमम् । ' द्वचचोतस्तिङः' इति दीर्घः । अनुप्वधं स्वधामन्नं अनुस्वदनीयं पुरोडाशात्मकमन्नं सोमम् । सुषामादित्वात् षत्वम्, 'अनोरप्रधानकनीयसी' इत्युत्तरपदान्तोदात्तत्वम् । मदाय, माद्यत्यनेनेति मदः । 'मदोऽनुपसर्गे' इत्यप् । ईदृशाय रणाय जयकरायेत्यर्थः । ' वार्चना एव ते यजमानस्य गृह्यन्ते '* ' यन्मरुत्वतीयाः '* 'आयुधं वा एतद्यजमानस्संस्कुरुते यन्मरुत्वतीयाः '* इत्यादि च ब्राह्मणम् । किं बिन्दुमात्रमपि पीतं मदाय भवतीत्याशक्य नेति प्रतिपाद्यते-आसिञ्चस्व आभिमुख्येन क्षारय जठरे उदरे यथा ते मदो भवति तथा प्रभूतं पिबेत्यर्थः । मध्वः मधुसदृशस्यास्य सोमस्य ऊर्मि सङ्घातम् । 'जसादिषु वा वचनं छन्दसि' इति गुणाभावः । राजा विशेष्यते-प्रदिवः पुराणः नेदानीमेव । मदस्योत्पाद्यत्वे हेतुमाह-त्वं राजा सुतानां सोमानां, तव मदाय सोमा अभिषूयन्त इति भावः, अतिक्रान्तेष्वप्यहस्सु त्वमेव सोमानां राजेति । यहा-त्वमेव ह्यतिक्रान्तेष्वहस्सु सुतानां राजाऽभूः, तस्मादिदा
*सं. ६-५-५.
For Private And Personal