________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भनु. १७.]
भट्टभास्करभाष्योपेता
51
मवसे नूतनायोग्र सहोदामह त५
हुवेम । उपयामगृहीतोसीन्द्रोय त्वा रिमित्यकव-अरिम् । दिव्यम् । शासम् । इन्द्रम् । विश्वासाहमिति विश्व-साहम् । अव॑से । नूतनाय । उग्रम् । सहोदामिति सहः-दाम्।इह । तम् । हुवेम । उपयामगृहीत इत्युपयाम-गृहीया ॥ मरुतो देवविशेषास्तैस्तद्वन्तम् । 'तसौ मत्वर्थे ' इति भत्वम् । ‘झयः' इति मतुपो वत्वम् । वृषभं वर्षितारं कामानां अपां वा । 'ऋषिवृषिभ्यां कित् ' इति वृषेरभच्प्रत्ययः । वावृधानं ऐश्वर्येण । वृधेस्ताच्छीलिकश्चानश् , 'बहुलं छन्दसि' इति शपश्श्लुः, तुजादित्वाद्दीर्घः, लसार्वधातुकानुदात्तत्वाभा वात् 'चितः ' इत्यन्तोदात्तत्वम् । अकवारिं अकुत्सितारिम् । कुत्सिता अरयो यस्य स कवारिः । कुशब्दस्याकारोपसर्जनो गुणश्छान्दसः, ततो नसमासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । योल्पान् शत्रुत्वेन विषयाकरोति सोकवारिः । यद्वा-कविः प्रज्ञातः अरिर्यस्य स कवारिः । कविशब्दस्यावङादेशश्छान्दसः । ततोन्योकवारिः अप्रज्ञात*शत्रुरित्यर्थः । दिवमहतीति दिव्यः। 'छन्दसि च ' इति यत्प्रत्ययः । शासं शासकं शत्रूणाम् । पचाद्यच् । विश्वासाहं विश्वेषां शत्रूणामभिभरितारम् । 'छन्दसि सहः' इति ण्विप्रत्ययः, ‘अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । उग्रं उद्र्ण मायुधैः । सहोदां सहसो बलस्य दातारम् । आतो
*क-अजात.
ख-उद्गीर्ण.
For Private And Personal