SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १६.] भभास्करभाष्योपेता तम् । उपयामगृहीतोस विश्वेभ्य संः। दाशुषः । सुतम् । उपयामगृहीत इत्युपयाम तेर्मन्प्रत्ययान्तात् 'ज्वरत्वर' इत्यादिना ऊठादेशे गुणः, आज्जसेरसुक् । चर्षणीधृतः, चर्षणयो मनुष्याः, तेषां प्रतिष्ठाद्यनु*प्रदानेन धारयितारः । 'अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घः, 'विभाषितं विशेषवचने बहुवचनम् ' इति पूर्वस्याविद्यमानत्वनिषेधान्निहन्यते । विश्वे इति पादादित्वान्न निहन्यते । देवास इति पूर्ववन्निहन्यते, पूर्ववदसुक् । हे ईदृशा विश्वे देवाः आगत आगच्छत । पूर्ववच्छपो लुक् । आमन्त्रितानामविद्यमान त्वेपि आङः परत्वान्न निहन्यते । दाश्वांसो यूयम् । दातृ दाने, लिटः क्वसुः ‘दाश्वान्साश्वान् ' इति निपातितः । यजमानेभ्यो धनानि दत्तवन्तः दाशुषोस्य यजमानस्य सुतं सोमं प्रत्यागच्छत । अयं हि यजमानो युष्मभ्यं हवींषि दत्तवान् ददाति दास्यति । तेन युष्मदुपकारिणोस्य सुतं प्रति दानशीला यूयं प्रत्यागच्छत। यद्वा-चतुर्थ्यर्थे षष्ठी, यो नाम कश्चिद्युष्मभ्यं हवींषि ददाति तस्मै दाशुषे दाश्वांसो यूयं धनानि दत्तवन्तो यूयम् । यद्वा'छन्दसि लुङ्किटः' इत्युभयत्र वर्तमाने लिट् । युष्मभ्यं हवींषि ददतोस्य सुतं प्रति यूयमपि धनानि ददत एवागच्छत इति ॥ इमामनुद्रुत्योपयामगृहीतोसि विश्वम्यस्त्वा देवेभ्यः इति गृह्णाति ॥ *क.~ष्ठादर्शन. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy