________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १५.]
मभास्करभाष्योपेता
47
इन्द्राग्नी आर्गत५ सुतं गीर्जिनभो
वरेण्यम् । अस्य पातं धियेषिता । 'इन्द्रामी इतन्द्रि-अग्नी । एति । गतम् । सुतम् । गीभिः । नः । वरेण्यम् । अस्य । पातम्। धिया । इषिता । उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राग्निभ्यामितीन्द्राग्नि-भ्याम् । 'अस्ति त्रयोदशो मास इत्याहुः '* इति च ब्राह्मणम् । यद्वासंसर्थस्सोम एव संसर्प इत्युच्यते । यद्वा-उपयामगृहीतोसि संसर्पार्थश्वासिं, तस्मादंहस्पत्याय त्वां गृह्णामीति । चतुर्थ्यर्थे वा द्वितीया, अंहस्पत्याय तुभ्यमिमं सोमं गृह्णामीति शेषः ॥
इति चतुर्थे चतुर्दशोनुवाकः.
ऋतुपात्रेणैन्द्राग्नं गृह्णाति ॥ 'यदैन्द्राममृतुपात्रेण गृह्णाति + इति ब्राह्मणम्, 'ओजोभृतौ वा एतौ देवानाम् + इत्यादि च । इन्द्रानी आगतमिति त्रिपदा गायत्री । हे इन्द्रानी आगतं. आगच्छतम् । 'बहुलं छन्दसि' इति शपो लुक् । सुतं अभिषुतं सोमं प्रति गोभिः स्तुतिभिः वरेण्यं वरणीयं प्रार्थनीयं स्तुत्यं सोमं नभः नहनं बन्धकं रसवत्तया मनसाम् । 'नहेदिवि भश्च' इत्यसुन् दिवोन्यत्रापि बहुलवचनात् । यहा
*सं. ६-५-३. सं.६.५-४. ख-नभस्संवन्धउच्यते धिया मनसा. ग-नमस्संबन्धकं रसवत्तया मनसा.
For Private And Personal