________________
Shri Mahavir Jain Aradhana Kendra
अनु. १४ . ]
www.kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailashsagarsuri Gyanmandir
सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्वोपया॒मगृ॑
12
13.
च॒ । "तप॑ः । च॒ । ̈त॒प॒स्य॑ः । च॒ । ”उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म – गृही॒त॒ः । अ॒सि॒ । स॒स इति॑
45
" दशमं गृह्णाति —– सहस्यश्चेति ॥ प्रजानामभिभावकेन शीतेन तद्वान् । तेनैव यत्प्रत्ययः । शीतवानिति यावत् ॥
"
"एकादशं गृह्णाति तपश्चेति ॥ शैशिर उच्यते । तपति दहति हिमेनेति तपः । कर्तर्येवान् ॥
12 द्वादशं गृह्णाति — तपस्यश्चेति । तपता हिमेन तद्वान् तपस्यः । स एव यत् । एवं नभस्सहस्तपश्शब्दाः स्वरानुरोधेनासुन्प्रत्ययान्ता व्याख्याताः । तथैव चाहुलैकिकाः
' नभोनभस्यौ कथिताविषोर्जे सहस्सहस्यौ च तपस्तपस्यौ ' इति । आचार्याभिप्रायेण त्वेते अकारान्ता लक्ष्यन्ते ; यथोक्तं— 'नभाय त्वा जुष्टं गृह्णामि इत्यादि । तदा ते इमे मत्वर्थीयाकारान्ता द्रष्टव्याः । क्विबन्तेभ्यो वाऽसुन् कार्यः । पचाद्यजन्तेभ्यो वा मत्वर्थीयो लुप्यते । सर्वथा त्वेते वृषादयो द्रष्टव्याः ॥
For Private And Personal
"त्रयोदशं गृह्णाति — उपयामगृहीतोसि संसर्पोंस्यंहस्पत्याय त्वा जुष्टं गृह्णामि इति ॥ हे सोम उपयामगृहीतोसि, ततस्त्वामंहस्पत्याय त्वां जुष्टं गृह्णामीति वक्ष्यमाणेन सम्बध्यते । संसर्प इति त्रयोदशो मास उच्यते । स हि द्वादशेन मासेन संसर्पति सङ्गच्छते । यद्वा — यस्मादयं मासिमास्यंशेनांशेन निष्पद्यते तस्मात्संसृष्ट एव मासान्तरैस्सर्पति । त्रिंशता च मासैर्मासत्वेन