________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
44
तैत्तिरीयसंहिता
[का. 1. प्र. ४.
• नभश्च नभस्य॑श्वेषश्चोर्जश्च सहश्च 'शुचिः । च । 'नः । च । नास्यः । च । 'इषः । च । 'ऊर्जः । च । सहः। च । "सहस्यः।
पञ्चमं गृह्णाति-नभश्चति ॥ नह्यति बध्नाति जन्तूनिति नभः । ' नहेर्दिवि भश्च' इत्यसुन्प्रत्ययः । वार्षिको मास उच्यते । स हि वर्षाभिभवेन जन्तून्प्रवृत्तिशून्यान् करोतीति बध्नाति । यद्वान भातीति नभः, स हि मेघाच्छादितत्वात् न भाति । भातेरसुनि नञ्समासे नलोपाभावो बहुलवचनत्वात् ॥
षष्ठं गृह्णाति–नभस्यश्चेति ॥ नभातीति नभः, भातेरसुन् । समानमन्यत् । अप्रकाशो नमोस्यास्तीति नभस्यः, 'मत्वर्थे मासतन्वोः ' इति यत् ॥
'सप्तमं गृह्णाति–इषश्चेति ॥ इडन्नम् । भूम्नि मत्वर्थीयोकारप्रत्ययः । इष इति शारदो मास उच्यते, शरदि हि प्रायेणौषधयस्सम्पद्यन्ते* ॥
अष्टमं गृह्णाति-उर्जश्चेति ॥ उर्ग रसः, स एव मत्वर्थीयोकारः । तत्र हि गावो बहुक्षीरा भवन्ति । प्रसन्नाश्च सरित्तटाकादयो रसवन्तो भवन्ति ॥
नवमं गृह्णाति-सहश्चेति ॥ हैमन्तिको मास उच्यते । सहते अभिभवतीति सहः । स हि शीतेन प्रजा अभिभवति । कर्तर्यसुन् ।
*ख. ग-सम्बध्यन्ते.
For Private And Personal