________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भनु. १४.]
भभास्करभाष्योपेता
43
संसर्पोस्यहस्पत्याय त्वा' इति । पूर्वेपि 'पुरस्तादुपयामः यजुषा गृह्यन्ते' इति पुरस्तादुपयामाः कर्तव्याः । तदर्थमन्त्यमन्त्रादौ समानातं तैरप्यनुषज्यते, तेषां साकाक्षत्वाञ्च; उपयामगृहीतोसि मधुश्चेत्यादि । हे सोम उपयाम गृहीतोसि । ततस्त्वां मधुश्च प्रतिपद्यतां सम्प्रदानत्वेन तव वर्तताम् । मधुर्नाम वासन्तिको मासः, 'मधुश्च माधवश्च वासन्तिकावृतू '* इति । ऋत्ववयवौ मासावित्यर्थः; यथा ' तस्माद्वौद्धावृतू '' इति । स च मधुप्रायत्वान्मधुरुच्यते । भूम्नि मत्वर्थीयः, 'मत्वर्थे मासतन्वोः' इति । तस्य ' लुगकारेकाररेफाश्च' इति लुक् । मधुमानित्यर्थः । सोमश्च चार्थः । मासाश्च चान्द्राः; त्रयोदशस्य चान्द्रत्वात् , पौर्णमासीनिमित्तस्य चैत्रादिव्यपदेशस्य चान्द्राणामेव सम्भवात् । अत एव मासानुविधायी मधुशब्दः । 'यज्ञेन वै देवास्सुवर्ग लोकमायन्न इत्यादि ब्राह्मणं समस्तोनुवाकः ॥
'द्वितीयं गृह्णाति-उपयामगृहीतोसि माधवश्चेति ॥ माधवश्च त्वां प्रतिपद्यतामिति शेषः । एवं सर्वत्र । माधव इति तस्यैव द्वितीयो मासः । 'मधोत्रं च ' इति मत्वर्थे अप्रत्ययः । मधुमानित्येवार्थः ॥
तृतीयं गृह्णाति-शुक्रश्चेति ॥ शुग्दीप्तिरस्मिन्नस्तीति भूम्नि तेनैव मत्वर्थीयो रप्रत्ययः । ग्रैष्मो मास उच्यते ॥ __ 'चतुर्थ गृह्णाति-शुचिश्चेति ॥ शोचयिता शोषयिता सलिलानां शुचिः; स हि बहूष्णत्वात्सर्व सलिलं शोषयति । 'इन् सर्वधातुभ्यः' इति शुचेरिन्प्रत्ययः ॥
*सं. ४.४.11.
सिं. ६.५.३.
For Private And Personal