________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
42
तैत्तिरीयसंहिता
का. १. प्र. ४.
मच्युतक्षितम एष ते योनिमय त्वा वैश्वानराय ॥ १४ ॥
मधुश्च माधवश्च शुक्रश्च शुचिश्च इत्यच्युतक्षित्-तमः । एषः। ते । योनिः। अग्नये। त्वा । वैश्वानराय ॥ १४ ॥
मूर्धानम्पञ्चत्रिशत् ॥ १३ ॥ 'मधुः । च । 'माधवः । च । शुक्रः । च ।
त्यस्थाल्यादीनां मध्ये ध्रुवतमस्त्वमसि । अच्युतानामच्युतस्थानानां मध्ये अच्युतक्षित्तमस्त्वमसि । अच्युतं स्थानं क्षियति निवसतीति क्विप् । यहा-अच्युतानां स्थानानां मध्ये यदच्युतमतिशयेनाच्युततमं निषेवते इति अच्युततमक्षिदिति यावत् ब्रूयात्तावदच्युतक्षित्तम इति । तत्र सामर्थ्यादुपसर्जनातिशायने तमप्प्रत्ययः, छान्दसो वा । ईदृशस्त्वमसीत्यधिवादः ।। एष ते योनिरनये त्वा वैश्वानरायेति सादयति ॥
इति चतुर्थे त्रयोदशः.
'अथ ऋतुग्रहास्त्रयोदश । तेषां ग्रहणमन्त्रास्त्रयोदशैव*यजूषि। तत्र तेषामन्त्यस्य पुररत दुपयामत्वमाम्नायते 'उपयामगृहीतोसि
*ख-दश ये च.
For Private And Personal