________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता
37
जिन्व यज्ञञ्जिन्वं यज्ञप॑तिमभि स
वना पाहि विष्णुस्त्वाम्पातु विशअसि । स्वग्रियण इति सु-आग्रयणः । जिन् । यज्ञम् । जिन्वं । यज्ञपतिमिति यज्ञ-पतिम् । अभीति । सर्वना । पाहि । विष्णुः। त्वाम् । पातु ।
स्त्रयश्च गणिनः गणवन्तः एकादशात्मकैस्त्रिभिर्गणैश्च तद्वन्तः रुजन्तस्सामर्थ्याद्रातृव्यान् । रुजो भङ्गे तौदादिकः । रुद्राः रोदयितारः शत्रूणां नारीणाम् । 'रोदेफ्लुिक्क ' इति रक्प्रत्ययः । एवंविधा एकादशास एकादशानां पूरणाः । पूरणप्रत्ययान्तात् 'आजसेरसुक्' । एतदुक्तं भवति-ये त्रिंशद्देवा दशवर्गत्रयात्मकाः ये च त्रयो गणिनः तत्तद्दशात्मकगणवन्त एकादशास्स्वयामिति इत्थं त्रयस्त्रिंशत्सम्पद्यन्ते । क पुनस्ते वर्तन्ते ? इत्याह-ये दिवं सचन्ते सेवन्ते, ये च पृथिवीं, ये चाप्सुषदः अन्तरिक्षणावतीर्णाः ; पूरणप्रत्ययान्ता वा ये त्रयो गणिनः, त्रयश्च गणा वर्तन्त इति; ते च विश्वे देवाः इमं सुतं सोमं आग्रयणाख्यं जुषन्तां सेवन्तां सवनाय सवनार्थ तृतीयसवनाथ; तत्र हि तस्य सावित्रपात्नीवतहारियोजनेषु विनियोगः । यहातृतीयसवने जुषन्तामिति सप्तम्यर्थे चतुर्थी । 'रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात् '* इति ब्राह्मणम् ॥
इत्यनुद्रुत्य उपयामगृहीतोसीति यजुरादिकया गृह्णाति ॥
*सं.६-४-११.
For Private And Personal