SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १०.] भट्टभास्करभाष्योपेता 36 पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥११॥ पातु । विशम् । त्वम् । पाहि । इन्द्रियेण । एषः। ते । योनिः । विश्वेभ्यः । त्वा । देवेभ्यः ॥ ११ ॥ ये देवास्त्रिचत्वारिंशत् ॥ १० ॥ ___ अधिवदते ॥ आग्रयणोसि आग्रयणाख्यो ग्रहस्त्वमसि । अग्रे ईयते गृह्यत इत्यग्रयणः ग्रहाणामग्रेसरोसि । 'ते देवा आग्रयणाग्रान्ग्रहानपश्यन् '* इति ब्राह्मणम् । शकन्ध्वादित्वात्पररूपत्वम् । अग्रयण एवाग्रयणः । 'सान्नाय्यानुजावर ' इत्यादिना स्वार्थिकोण्निपातितः । यहा--वाचा अग्रे प्रथममीयत इत्याग्रयणः । 'वाग्वै देवेभ्यः' इत्यादि ब्राह्मणं 'तदाग्रयणस्याग्रयणत्वम् '* इत्यन्तम् । स्वाग्रयणः, अग्रयं श्रेष्ठयं यन्ति प्रामुवन्त्यनेनेत्याग्रयणः, शोभन आग्रयणस्स्वाग्रयणः । त्वां गृहीत्वा देवा अग्रं पर्यायन् । तथा यजमानोपि त्वां गृहीत्वा समानानामग्रं पर्येत्विति भावः । ‘अग्रमेव समानानां पर्येति' इति* ब्राह्मणम् । यस्मादीदशस्त्वमसि तस्माज्जिन्व प्रीणय यज्ञं, यज्ञपतिं च जिन्व । उभयत्रापि वाक्यादित्वान्न निहन्यते । जिवि प्रीणने । सवना सवनानि, अभि पाहि आभिमुख्येन पालय तवाक्षीणतया । त्वयि हि क्षीणे प्रायश्चित्तप्रसङ्गादरक्षितानि सवनानि स्युः; तस्मान्मा क्षेष्ठा इत्यर्थः । तदर्थ भगवान्विष्णुस्त्वां पातु यस्सर्व पाति । त्वमपि विशं प्रजां यजमा *स. ६-४-११. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy