________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
34
'तैत्तिरीयसंहिता
[का. १.प्र. ४.
मध्येकादश स्थाप्सुषदौ महिनैकादश स्थ ते देवा यज्ञमिमं जुषध्वमुपयामगृहीतो स्याग्रयोसि स्वाग्रयणो जिन्व यज्ञं जिन्वं यज्ञप
तिमभि सर्वना पाहि विष्णुस्त्वां इत्येप्सु-सदः । महिना । एकादश । स्थ । ते । देवाः । यज्ञम् । इमम् । जुषध्वम् । उपयामगृहीत इत्युपयाम-गृहीतः। असि । आग्रयणः । असि । खाग्रयण इति सु-आग्रयणः । जिन्व । यज्ञम् । जिन्वं । यज्ञपतिमिति यज्ञ-पतिम् । अभीति । सर्वना । पाहि । विष्णुः । त्वाम् ।
माहात्म्येन ह्यन्तरिक्षे सीदन्तीति । एवं त्रयस्त्रिंशदपि यूयं हे देवा इममाग्रयणसाध्यं यज्ञं जुषध्वम् सेवध्वम् । नन्वस्य ग्रहस्य देवस्सविता पत्नीवानग्निः हरिवानिन्द्रः इति देवताः, न तु विश्वे देवाः । सत्यम् ; सवितर्यनाविन्द्रे च द्युष्टथिव्यन्तरिक्षस्था दश दशान्ये देवा अन्तर्भूता इति तेपि जुषध्वमित्युच्यते । पत्नीवदभिप्रायं वा ॥ .
इमामनुद्रुत्य 'उपयामगृहतिोसि विश्वेभ्यस्त्वा देवेभ्यः । इति गृह्णाति ॥ अस्य ग्रहणमन्त्रस्य साकाङ्कत्वात्सादनमन्त्रे श्रुतं विश्वेभ्यस्त्वेति सम्बध्यते ॥
For Private And Personal