________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
32
तैत्तिरीयसंहिता
का. १. प्र. ४.
चीनं वृजनं दोहसे गिराशुं जय
न्तमनु यासु वर्धसे । उपयामगृहीप्रतीचीनम् । वृजनम् । दोहसे । गिरा। आशुम् । जय॑न्तम् । अन्विति । यासु । वर्धसे । उपयामगृहीत इत्युपयाम-गृहीतः । असि । मर्काय ।
लोपः, ‘सत्सूद्विष ' इत्यादिना क्विप् । सुवः स्वर्गमादित्यं वा वेत्तीति सुवर्विदम् । अधुनार्धर्चा*न्तरेण स्तुतिहेतुमाह-त्वां खलु प्रतीचीनं प्रतीचीनगतिं पराङ्मुखमपि सामर्थ्यान्मेघम् । 'विभाषाञ्चेरदिस्त्रियाम् ' इति खः । वृजनं बलवन्तम् । उभयत्र मत्वर्थीयोकारः। । प्रतीचीना गतिरस्यास्तीति प्रतीचीनम् । मत्वर्थीयोकारो लुप्यते । गिरा गर्जितलक्षणया शब्देन जयन्तं लोकानभिभवन्तम् । आशुं शीघ्रं, व्यापकं वा दिगन्तानां •। 'कृपावाजि ' इत्युण्प्रत्ययः । ईदृशं मेघ दोहसे क्षारयसि । विकरणव्यत्ययेन शप् , स्वरितेत् । य इति वाध्याह्रियते, यस्त्वं धोक्षि तं स्तुमः । क्व पुनस्तुमः ? इति चेत् , आह—-यासु क्रियासु यागलक्षणासु त्वमनुवर्धसे अनुक्रमेण वृद्धि गच्छसि, स्तुत्यनन्तरं वा वृद्धिं गच्छसि, तासु स्तुमः । यद्वा-यासु स्तुतिषु त्वमनुवर्धसे स्तुतो वृद्धि गच्छसि तास्स्तुतीः कुर्म इति शेषः । स्तुत्या हि स्तोतव्यो वर्धते, यथा 'वर्धन्तु त्वा सुष्टुतयः' इति । यहा-ईदृशं मेघ दोहसे । कम् ? वृननं बलकरमुदकं गिरा गर्जितेनोपलक्षितः ॥
-
*ख-प्रकारा.
क- यः प्रागिवीयः कः.
सं. २-२-१२.
For Private And Personal