________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
344
तैत्तिरीयसंहिता
का. १. प्र. ६.
यो दिवि । धर्म न सामन्तपता सुवक्तिभिर्जुष्टं गिर्वणसे गिरः । इन्द्र
मिद्गाथिनो बृहादिन्द्रमभिराणिः। धर्मम् । न । सामन्न् । तपत । सुवृक्तिभिरिति सुवृक्ति-भः । जुष्टम् । गिर्वणसे । गिरः । 'इन्द्रम्। इत् । गायिनः। बृहत् । इन्द्रम् । अभिः । अर्कि
इत्युत्तरपदान्तोदात्तत्वम् । यद्वा-सुवृक्तिभिश्शोभनभक्तिभिस्सामभिः । 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । सामन्निति व्यत्ययेन तृतीयाबहुवचनस्य सप्तम्येकवचनं, तस्य च ‘सुपां सुलुक्' इति लुक् । ननु तृतीयाबहुवचनस्यैव लुगस्तु ? नैवं शक्यते । 'न ङिसम्बुद्ध्योः' इति नलोपप्रतिषेधो न स्यात् । जुष्टमिन्द्रस्य प्रियं भागं तपत । तस्मै महानुभावाय इन्द्राय दातुं तद्योग्यं संस्कुरुत । साहितिकोस्य दीर्घश्छान्दसः । जुष्टशब्दस्यायुदात्तत्वमुक्तम् । किञ्च-गिर्वणसे गीर्भिर्वननीयाय भजनीयाय स्तोतव्यायेन्द्राय इन्द्रार्थं गिरः वाचश्च स्तुतिरूपाः तपतेत्येव । गीर्भिर्वननीय इति 'गतिकारकयोरपि' इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च । स चास्मभ्यं ब्रह्मवर्चसं ददात्विति ॥
" इन्द्रायार्कवते पुरोडाशमेकादशकपालं निर्वपेदन्नकामः '* इत्यस्य पुरोनुवाक्या-इन्द्रमिदिति गायत्री ॥ इन्द्रमित् इन्द्रमेव गाथिनो गाथावन्तः गायका उद्गातारः । ब्रह्मादित्वादिनिप्रत्ययः ।
*सं.-२-२-७.
For Private And Personal