SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 342 'तैत्तिरीयसंहिता का. १.प्र.६.] क्षत्रमनु सहो यजत्रेन्द्र देवेभिरर्नु ते नृपये। आ यस्मिन्त्स॒प्त वासवा स्तिष्ठन्ति स्वारुहो यथा । ऋषिरह सहः । यजत्र । इन्द्र । देवेभिः । अन्विति । ते । नुषा इति नृ-सर्यो । एति । यस्मिन्न् । सप्त । वासवाः । तिष्ठन्ति । स्वारुह इति स्व-रुहः । यथा । ऋषिः । ह । दीर्घश्रुतम् इति दीर्घश्रुत्यज्ञेषु सर्वेष्वपि । सप्तम्या आकारः । देवतान्तरेभ्य इन्द्रस्य विशेषानाचष्टे-महे महते इन्द्रियाय वीर्याय अनु । द्वितीयार्थे चतुर्थी । महदिन्द्रियहेतुभावमनुशब्दो द्योतयति । महतेन्द्रियेण तद्वानयमिति कृत्वा तुभ्यमेव दीयते । अनु वृत्रहत्ये वृत्रहत्याम् । ‘सुपां सुलुक्' इति द्वितीयाया एकारः । वृत्रं हतवानयमिति कृत्वा । क्षत्रं धनं, धनवानिति कृत्वा । सहो बलं, बलवानिति कृत्वा । अनु नृषह्ये, नृषा नृणां शत्रूणामभिभवितृत्वम्, सर्वेषां नृणामयमभिभवितेति कृत्वा । ‘शकिसहोश्च' इति भावे यत्, पूर्ववद्वितीयाया एकारः, सुषामादित्वात्षत्वम् ॥ ___ इन्द्राय धर्मवते पुरोडाशमेकादशकपालं निर्व पेद्ब्रह्मवर्चसकामः'* इत्यस्य पुरोनुवाक्या-आ यस्मिन्नित्यनुष्टुप् ॥ सप्त, सृप्तारः सप्तसङ्ख्या वा । वासवाः जगतां वासहेतवः । वसव एव वासवाः प्रकाशोदकधारणाहरणवितरणकारिणो रश्मयोश्वा वा । वसूनां रश्मीनां समूह एव वा वासवः सप्तशतानि प्रधानानि *सं. २-२-७. कि-सप्तातानि. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy