________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भट्टभास्करभाष्योपेता
341
जनैषु पञ्चसु । इन्द्र तानि त आ वृणे । अनु ते दायि मह इन्द्रियाय
सत्रा ते विश्वमर्नु वृत्रहत्ये। अनु४६ पञ्चस्विति पञ्च-सु । इन्द्र । तानि । ते । एति । वणे । 'अन्विति । ते । दायि । महे । इन्द्रियाय । सत्रा । ते । विश्वम् । अन्विति । वृत्रहत्य इति वृत्र-हत्यै । अन्विति ॥४६॥ क्षत्रम् । अन्विति ।
यानि ते तवेन्द्रियाणि वीर्याणि पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिषु देवमनुष्यपितृरक्षोगन्धर्वेषु वा त्वया दत्तानि तिष्ठन्ति । यद्वा-पञ्चसु जनेषु निमित्तभूतेषु पञ्चजनपरिपालनार्थानि* यानि तव वीर्याणि त्वयि तिष्ठन्ति तान्यहमावृणे आभिमुख्येन याचे ते तवैव प्रसादान्मदभिमतान्यपि साधयन्त्विति प्रार्थये । त्वं च तथानुज्ञातुमर्हसि, यथाहं पशुमान्त्स्यामिति । यद्वा-मय्यपि तानि वीर्याणि सन्त्विति याचे, त्वं च तानि देहि । ‘स एवास्मा इन्द्रियं पशून्प्र यच्छति पशुमानेव भवति । इति ब्राह्मणम् ॥ - 'तत्रैव याज्या-अनु त इति त्रिष्टुप् ॥ हे इन्द्र यजत्र यष्टव्य । यजेरत्रः । ते तुभ्यं दायि दीयते देवेभिः ऋत्विग्भिः; सामर्थ्याद्धविरिति गम्यते । विश्वं कृत्स्नमपि तुभ्यमेव दीयते, त्वत्प्रधानत्वाद्देवानाम् । यद्वा-विश्वं हविस्तुभ्यमेव दीयतां किमन्यैर्देवैः । छान्दसो लुङ् । 'अमाङयोगेपि' इत्यडभावश्चान्दसः । सत्रा सत्रेषु सर्तव्येषु *क-तत्परिपालनार्थानि.
सिं. २-२-७.
For Private And Personal