SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता 389 KNOHORTws भ्यः। अस्माकमस्तु केवलः । इन्द्र नरौ नेमधिता हवन्ते यत्पायर्या युनजनेभ्यः । अस्माकम् । अस्तु । केवलः । इन्द्रम्। नरः । नेमधितेति नेम-धिता । हवन्ते । यत् । पायर्याः । युनर्जते । धियः । ताः । शूरः। नृषातेति हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः साम झंद्युष्मभ्यमस्मभ्यं च सर्वार्थमिन्द्रं विश्वतस्परि विश्वस्मादुपरि हवामहे आह्वयामः । 'पञ्चम्याः परावध्यर्थे ' इति सत्वम् । यहाविश्वतो जनेभ्य उपरिस्थितमिन्द्रं वो युष्मदर्थं हवामहे । किमर्थम् ? अस्माकमेव केवलोसाधारणोस्तु साधको नान्येषामिति ॥ तत्रैव याज्या--इन्द्रं नर इति त्रिष्टुप् ॥ नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति । कीदृशम् ? नेमधिता, नेम इत्यर्धस्य नाम । 'यन्सर्वेषामर्धमिन्द्रः प्रति'* इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः । निष्ठायां 'सुधितवसुधितनेमधित' इति धिभावो निपात्यते, ‘सुपां सुलुक्' इति द्वितीयैकवचनस्याकारः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । कदा पुनरसौ नेमेन धार्यत इत्याह यद्यदा । तेनेव सप्तम्या लुक् । पार्याः परलोके साधवः । छान्दसो ज्यः । यद्वा-दुःखानां पारं समाप्तिः । तत्र साध्वीर्धियः कर्माणि ता यदर्थमिन्द्रमाह्वयन्ति । ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति । 'छन्दस्युभयथा' इत्यार्धधातुकत्वेन नमो डिवाभावात्,.. *सं. ५-४-८, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy