________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता
337
व्यैवानादो भवतीन्द्रस्य ॥४४॥ अहं देवयज्ययेन्द्रियावी भूयासमित्यहिन्द्रियाव्यैव भवति महेन्द्रस्याहं देवयज्यया जेमान महिमानं गमयमित्यांह जेमानमेव महिमानं गच्छ
त्यग्नेस्स्विष्टकृतोऽहं देवय॒ज्ययायुआह । इन्द्रियावी । एव । अन्नाद इत्यन-अदः । भवति । "इन्द्रस्य ॥४४॥ अहम् । देवयज्ययेति देव-यज्यया । इन्द्रियावी। भूयासम् । इति । आह । इन्द्रियावी । एव । भवति । "महेन्द्रस्यति महाइन्द्रस्य । अहम् । देवयज्ययेति देव-यज्यया । जेमानम् । महिमानम् । गमेयम् । इति । आह । जेमानम् । एव । महिमानम् । गच्छति । "अग्नेः। स्विष्टकृत इति स्विष्ट-कृतः। अहम् । देवयज्यइन्द्रेणेन्द्रियावी, अग्निनान्नादश्च भवति । 'बहुलं छन्दसि' इति विनिः, 'अन्येभ्योपि दृश्यते' इति दीर्घत्वम् ॥ 1 इन्द्रस्येत्यैन्द्रस्य सान्नाय्यस्यानुमन्त्रणम् ॥
"महेन्द्रस्येति माहेन्द्रस्य ॥ जेमा जेतृत्वं सर्वोत्कृष्टत्वम् । 'तुश्छन्दसि' इति नेतृशद्वादिमनिच् , छान्दस इकारलोपः, 'तुरिष्ठेमेयस्सु' इति तृलोपः । जनयितृत्वं वा । जनेश्छान्दसो जाभावः । 'अन्येभ्योपि दृश्यन्ते' इति वा व्यत्ययेन भावे जयतेर्मनिन्प्रत्ययः, छान्दसमन्तोदात्तत्वम् । महिमानं महत्त्वम् । मह पूजायाम् । सर्वेषां पूजार्हत्वम् । पूर्ववन्मनिन्प्रत्ययस्स्वरश्च ॥ अग्नेस्स्विष्टकत इति स्विष्टकतोनुमन्त्रणम् ॥ आयुष्मान्दीर्घायुः ।
43
For Private And Personal