________________
Shri Mahavir Jain Aradhana Kendra
322
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीय संहिता
ता व्याहृतयो यज्ञमुख ए॒व ब्रह्म॑
कुरुते सं॑वत्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वा सा॑दये॒द्ब्रह्म॑ण॒वोभ॒यत॑स्सं॑वत्स॒रं परि॑ गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्नां क्रियते
[का. १. प्र. ६.
मासौ । चातुर्मास्यानीति॑ चातुः - मा॒स्यानि॑ । ब्रह्म॑ । ए॒ताः । व्याह॑तय॒ इति॑ वि - आहु॑तयः । य॒ज्ञमु॒ख इति॑ यज्ञ - मुखे । ए॒व । ब्रह्म॑ । कुरुते॒ । संवत्स॒र इति सं - व॒त्स॒रे । प॒र्याग॑त॒ इति॑ परिआग॑ते । ए॒ताभि॑ः । ए॒व । एति॑ । साये॒त् । ब्रह्म॑णा । ए॒व । उ॒भ॒यत॑ः । सं॒व॒त्स॒रमिति सं॑ व॒त्स॒रम् । परीति॑ । गृह्णाति॒ । 'यत् । वै । य॒ज्ञस्य॑ । साम्नः॑ । त्रि॒यते॑ रा॒ष्ट्रम् ॥ ३५ ॥
1
For Private And Personal
"या इत्यादि ॥ यज्ञस्य या आशीः साम्ना क्रियते सा सामस्थाशीः आशंसनीयं फलं राष्ट्रं गच्छति यत्रायं वसति तद्राष्ट्रवासिनां तत्केवलं स्यात् । अथ यदृचा क्रियते सा यज्ञस्याशीः विशं गच्छति सर्वान्मनुष्यान् । जातावेकवचनम् । अथेदानीमयं ब्राह्मणो वराकोऽनाशीर्केणाफलेन यज्ञेन यजते, किमेतद्युज्यते ? यद्वा — तिष्ठन्त्वन्ये; ब्राह्मणः किमनाशीर्केण यजेत यः प्रयोजनमन्तरेणाहितं निमेषमात्रमपि न करोतीति प्रतिपादनार्थं ब्राह्मणग्रहणम् । यजुषां प्रायेण करण(क) मन्त्रत्वान्न