SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 26 'तैत्तिरीयसंहिता का. १. प्र. ४. या वां कशा मधुमत्यश्विना सूनुतावती । तया यज्ञं मिमिक्षतम् । उपयामगृहीतोस्य॒श्विभ्यां त्वैष ते योनिर्मावीभ्यां त्वा ॥ ७ ॥ 'या । वाम् । कशा । मधुमतीति मधु-मती। आश्वना । सूनृावतीति सूनृता-वती । तया । यज्ञम् । मिमिक्षतम् । उपयामगृहीत इत्युपयामगृहीतः । असि । अश्विभ्यामित्यश्वि-भ्याम् । त्वा । एषः।ते। योनिः। माध्वीभ्याम् ।त्वा ॥७॥ - या वामष्टादश ॥ ६ ॥ 'बहिष्पवमाने स्तुते आश्विनं गृह्णाति-या वां कशेति गायत्र्या त्रिपदया ॥ हे अश्विना अश्विनौ । पूर्ववदाकारः । मधुमती मधुकररसवती । सू नृतावती, प्रियं सू नृतं वचनं, तद्वती । 'अन्येषामपि दृश्यते ' इति दीर्घत्वम् । ईदृशी या वां युवयोः, कशा वाक्प्रवृत्तिस्सूक्ति*लक्षणा युष्मद्विषयास्माभिः क्रियमाणा, तया हेतुभूतया तां श्रोतुं यज्ञमिमं मिमिक्षतम् आगत्योत्पादयितुमिच्छतम् । मिहेस्सनि ढत्वे 'षढोः कस्सि' इति कत्वम् । तया वा करणभूतया यज्ञं निवर्तयतम् ॥ इत्यनुद्रुत्य उपयामगृहीतोस्यश्विभ्यां त्वेति गृह्णाति ॥ 'एष ते योनिर्माध्वीभ्यां त्वेतिसादयति ॥ मध्वस्यास्तीति मध्वम् मधुभाजनं, दृतिरूपम् । 'यो हि वां मधुनो दृतिः' *ख-स्सूक्त. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy