SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 27 अनु. ६.] भभास्करभाष्योपेता प्रातर्युजौ वि मुव्यथामश्विनावेह ग च्छतम् । अस्य सोम॑स्य पीतये । 'प्रातयुजाविति प्रातः-युजौ । वीति । मुच्येथाम् । अश्विनौ । एति । इह । गच्छतम् । अस्य । सोम॑स्य । पीतये । उपयामगृहीत इत्युपयामगृहीतः । असि । अश्विभ्यामित्यश्वि-भ्याम् । इत्यादौ प्रसिद्धम् । तदन्तान्मत्वर्थीय इकारः । 'ऋत्व्यवास्त्व्यवास्त्व' इत्यादौ 'माध्वी' इति निपात्यते । यद्वामध्वेव मावी, आग्नीध्रादिवत्स्वार्थेऽञ् , माध्वीभ्यामिति मधुमद्भयामित्यर्थः । 'यज्ञस्य शिरोच्छिद्यत ते देवा अश्विनावब्रुवन् '* इत्यादि ब्राह्मणम् । 'ते देवा अब्रुवन्नपूतौ वा इमौ' इत्यादि च* ' तस्माद्वहिप्पवमाने स्तुत आश्विनो गृह्यते' इत्यन्तम् । ' वाग्वा ऐन्द्रवायवः '* इत्यादि च ॥ इति चतुर्थे षष्ठोनुवाकः. 'पुनरप्याश्विनग्रहणमन्त्रः-प्रातर्युनाविति गायत्री त्रिपदा । पूर्वेण सहास्य विकल्पः ॥ हे अश्विनौ यौ युवां प्रातर्युनौ प्रातर्योक्तारौ तौ विमुच्येथाम् यजमानान्तरैर्विमुक्तौ भवतं अन्ययजमानान्विहाय इहास्मिन्कर्मण्यागच्छतम् । किमर्थम् ? अस्य सोमस्य पीतये पानाय । ‘क्तिच्तौ च संज्ञायाम् ' इति क्तिच् , पानविशेषस्य संज्ञात्वात् ॥ *सं.६-४-९. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy