________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
306
तैत्तिरीयसंहिता
[का. १. प्र. ६.
नेदन्तीति मनसा प्रणयतीयं वै मनः ॥ २५ ॥ अनयैवैनाः प्रणय॒त्यस्कबहविर्भवति य एवं वेद यज्ञायुधा
नि सं भरति यज्ञो वै यज्ञायुधानि एताः।न।अतीति। नेदन्ति । इति।मनसा। प्रेति। नयति । इयम् । वै । मनः ॥ २५ ॥ अनयो । एव । एनाः । प्रेति । नयति । अस्कन्नहविरित्यस्कन्न-हविः । भवति । यः । एवम् । वेद । 'यज्ञायुधानीति यज्ञ-आयुधानि । समिति। भरत। यज्ञः।वै। यज्ञायुधानीति यज्ञ-आयुधानि । यज्ञम्। एव । तत् । समिति । भरति । यत् । एकमेकमित्येकै-एकम् । सम्भरेदिति सं-भरेत् । पितृदेवएता आपस्तदतिनेदन्ति अतिगछन्ति अतिव्याप्य वर्तन्ते । णिह णेढ गतादिषु । वागिन्द्रियं चातिनेदन्ति, मनइन्द्रियं तु नातिनेदन्ति नातिवर्तन्ते, तस्मान्मनसा प्रणयतीत्याहुः । इयं वा इत्यादि । मनसो व्यापकत्वात् । अस्कन्नहविरिति । पृथिव्यात्मना व्यापकेन मनसा धृतत्वादपाम् ॥ .. यज्ञायुधानीत्यादि । तदधीनत्वाद्यज्ञनिवृत्तेस्ताच्छब्द्यम् । एकैकप्रयोगे पितृदेवत्यानि पात्राणि स्युः । सर्वेषां सह प्रयोगे मानुपाणि स्युः । तस्माद्वेढे प्रयुनक्ति । द्वित्वान्वयाद्याज्यानुवाक्यारूपलाभः । अथो अपि च । द्वित्वान्वयेन मिथुनत्वमेव सम्पद्यते।
For Private And Personal