________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ६.]
भटभास्करभाष्योपेता
297
अग्नेर्विमा ५ अश्वी यज्ञो नृवत्सखा सदमिदंप्रमृष्यः । इौवा५ एषो असुर प्र॒जावान्दी| रयिः पृथुबुध
सभावान् ॥ २० ॥ नृवत्-सखा । सदम् । इत् । अप्रमृष्य इत्यप्रमृष्यः । इडावानितीडा-वान् । एषः । असुर । प्रजावानिति प्रजा-वान् । दीर्घः । रयिः। पृथुबुन इति पृथु-बुनः। सभावानिति सभा-दान् ॥२०॥
द्विष्मस्सुवीर्य स आ पञ्चत्रिशञ्च ॥६॥
देवास्सखायो यस्य तादृशः । छान्दसम्मतुपो वत्वम् । सदमित्सदैवाप्रमृष्यः । अनभिभवनीयः । 'ऋदुपधाच्चाक्लपितेः' इति क्यप् , 'ययतोश्चातदर्थे ' इत्युत्तरपदान्तोदात्तत्वम् । इडावानन्नवान् । — दीर्घादटि समानपादे' इति नकारस्य संहितायां रुत्वम् । प्रजावान् दीर्घः सन्ततिमान् अविछिन्नः पृथुबुध्नः विस्तीर्णमूलः रयिः साक्षाद्धनं च सभावान् गृहवान् एष ईदृशो यज्ञः पुनःपुनराभवतु आगच्छतु कालेकाले असुर असुमान् प्राणवान् । मत्वर्थीयो रः, सुलुक् ॥ ...
इति षष्ठे षष्ठोनुवाकः.
BR
For Private And Personal