________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
296
तैत्तिरीयसंहिता
का. १. प्र. ६.
आ ॥. १९ ॥ बभूव स प्र जंजे स वावृधे । स देवानामधिपतिर्बभूव सो अस्मा५ अधिपतीन्करोतु वय५
स्याम पतयो रयीणाम् । गोमा बभूव । सः। एति ॥ १९ ॥ बभूव । सः। प्रेति । जज्ञे । सः । वावृधे । सः । देवानाम् । आधिपतिरित्यधि-पतिः। बभूव।सः। अस्मान्।अधिपतीनित्यधि-पतीन् । करोतु । वयम् । स्याम । पतयः । रयीणाम् । "गोमानिति गो-मान् । अग्ने । आवमानित्यवि-मान् । अश्वी । यज्ञः । नृवत्सखेति
जगती ॥ यज्ञोयं बभूव निवृत्तोभूत् । स आबभूव स निर्वृत्तोस्माकमावृत्त्या भवतु पुनःपुनर्भवतु । छान्दसो लिट् । स प्रजज्ञे प्रजातः प्रज्ञातो वास्तु प्रसिद्धोस्तु । स वावृधे स प्रसिद्धो वर्धताम् । 'तुजादीनाम् ' इत्यभ्यासस्य दीर्घत्वम् । स च प्रसिद्धो देवानामधिपतिहेतुत्वादधिपतिः अधिकं पालयिता भवतु । स ताहशस्सन्नस्मानप्यधिपतीन् मनुष्याणामधिकं पालयितुन् करोतु । तदर्थ वयं रयीणां धनानां पतयस्स्वामिनस्स्याम भवेम । पूर्ववन्नाम उदात्तत्वम् ॥
1प्राडुत्क्रम्य गोमती जपति—गोमानिति त्रिष्टुभा ॥ यज्ञः पुनराभवत्वित्युक्तं, कीदृशः स आभवत्विति स विशेष्यते-हे अग्ने गोभिर्बहुभिः अविभिरश्वैश्च तद्वान् नृवत्सखा मनुष्यवन्तो
For Private And Personal