________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ६.]
भट्टभास्करभाष्योपेता
291
निर्भजामि निभैक्तस्स यं द्विष्मः
॥१७॥ सं ज्योतिषाभूवमैन्द्रीमाअन्नाद्यादित्यन-अद्यात् । निरिति । भजामि । निर्भक्त इति निः-भक्तः । सः। यम् । द्विष्मः ॥ १७ ॥ समिति । ज्योतिषा । अभूवम् । ऐन्द्रीम् । आवृतमित्या-वृतम् । अन्वावर्त इत्यनु
इति पञ्चम्युदात्ता । अस्मात्प्रसिद्धादन्नाद्यात्, अन्नस्यादनमन्नाद्यं । अन्नमेव वात्तव्यमन्नाद्यम् । छान्दसो यत् । निर्भजामि निर्वासयामि । ततश्च स निर्भक्तः दूरीकृतः यं च वयं द्विष्म इति। गतम् ॥
*आत्मानमभिमृशति-सं ज्योतिषेति ॥ ज्योतिषा दीप्त्याहं. समभूवमेकीभूतोस्मीति । छान्दसो वा लुङ् । कृतकर्माहमादित्यस्य परमेण वा ज्योतिषा एकीभूयासमिति । यहा—'आशंसायां भूतवच्च' इति भविष्यति लुङ् । इदानीमेव ज्योतिषा सम्भविष्यामीति ॥
उदर्यावर्तते-ऐन्द्रीमिति ॥ ऐन्द्रीमावृतमावृत्तिं पर्यावृत्तिं अहमन्वावर्तेनुगन्तास्मि । इन्द्रेण पूर्वकृतामनु पश्चादहमनुवर्ते । यहालक्षणेऽनोः कर्मप्रवचनीयत्वम्, ऐन्द्रयावृत्त्या इयमावृत्तिलक्ष्यत इति । इन्द्र आदित्यः । 'असौ वा आदित्य इन्द्रः'* इत्यादि ब्राह्मणम् ॥
*सं. १-७-६.
For Private And Personal