SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ६.] भट्टभास्करभाष्यापेता 289 मा छिसि यत्ते तपस्तस्मै ते मा वृक्षि सुभूरसि श्रेष्टौ रश्मीनामा इति सं-दृशः। ते । मा । छिसि । यत् । ते । तपः । तस्मै । ते । मा । एति । वृक्षि । सुभूरिति सु-भूः । असि । श्रेष्ठः । रश्मीनाम् । आयुर्धा घस' इति च्लेलृक् । स्वर्गे भोक्तव्यानि भुक्ता पश्चात्सुवः सुष्टु अरणीयं आदित्यान्तरपुरुषं मुक्तिस्थानमगन्म गमिष्यामः गम्यास्म वा । स एव लुङ् । पूर्वाभिधानेन पूर्वस्मादस्याभ्यर्हितत्वं द्योतयति । तदर्थमहं तव सन्दृशः सन्दर्शनात् अनुष्यानलक्षणात् मा छित्सि आछेद्यो मा भूवम् । आत्माभिप्रायमेकवचनम् । आत्मनोऽच्छेदनस्य सर्वार्थसाधनत्वात् । किञ्च-यते त्वदर्थं तपः कर्म यागादि तस्मै तदर्थं ते तव प्रसादात् तत एव वा सन्दशः मा वृक्षि मा विवो भूयासम् । वृजी वर्जने । यद्वा-व्रश्चनीयो मा भूवं, त्वत्परिचरणव्यापारो यथा मा विच्छेदि तथानुध्यातुमर्हसीति ॥ आदित्यमुपतिष्ठते-सुभूरिति ॥ सुष्टु भवति उदेतीति सुभूः शोभनभवनोसि सर्वबोधकामाभिमतत्वात् । सुष्टु भावयतीति वा सुभूः । 'बहुलं संज्ञाछन्दसोः' इति णिलुक् , कदुत्तरपदप्रकृतिस्वरत्वम्, बहुव्रीहित्वेन ‘नसुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ईदृशोसि हे भगवन्निति । किञ्च-श्रेष्ठः प्रशस्यतरः श्रेष्ठो रश्मीनां रश्मिमतामग्निचन्द्रतारादीनां मध्ये, तेषामपि वा, प्रशस्यतमः । ' नामन्यतरस्याम्' इति नाम उदात्तत्वम् । आयुर्धाः आयुषो धाता 37 . For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy