SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 286 तैत्तिरीयसंहिता का.१. प्र.६. विष्णोःक्रमोस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु विक्रमे निर्भक्तस्स यं द्विष्मो विष्णोः क्रमास्यभि शस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षममार्जयन्ताम् । 'विष्णोः । क्रमः । असि । अभिमातिहेत्यभिमाति-हा । गायत्रेण । छन्दसा । पृथिवीम् । अनु । वीति । क्रमे । निर्भक्त इति निःभक्तः । सः । यम् । द्विष्मः । "विष्णोः । क्रमः । असि । अभिशस्तिहेत्यभिशस्ति-हा । त्रैष्टुंभेन । 8-"विष्णुक्रमान् कामति-विष्णोः क्रमोसीति ॥ 'विष्णुमुखा वै देवाः '* इत्यादि ब्राह्मणम् । विष्णोर्भगवतस्त्रीन् लोकान् क्रामतः यः क्रमः पदविक्षेपः स एव त्वमसि यो ममासि । विष्णोरात्मनश्चाभेदोपचारादेवमुच्यते । ब्राह्मणं च भवति 'विष्णुरेव भूत्वा यजमानः '* इत्यादि । 'नोदात्तोपदेशस्य ' इति वृद्ध्यभावः । क्रमो विशेष्यते-अभिमातिहा अभिमातिः पाप्मा तस्य हन्ता त्वमसि, यतो विष्णोः क्रमोसि । यद्वा-यो विष्णोः क्रमोस्यभिमातिहा त्रिविक्रमरूपस्य भगवतः विष्णोः सर्वलोकाक्रमणक्षमः क्रमः पदविक्षेपः सर्वानिष्टहन्ता स एव त्वमसि यो मदीयः क्रमः ; अतस्तादृशेन त्वयानुक्रमेण विक्रमणेनाभिजयामि सर्वमप्रतिबन्धेन । 'वृत्तिसर्गतायनेषु क्रमः' इत्यात्मने *सं. १-७-५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy