SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५.] भट्टभास्करभाष्योपेता 285 यन्तां दक्षिणायाम् ॥ १५॥ दिशि मासाः पितरौ मार्जयन्तां प्रतीच्या दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञस्संवत्सरो यज्ञप॑तिर्जियन्तां न्ताम् । दक्षिणायम् ॥ १५ ॥ दिशि । मासाः। पितरः । मार्जयन्ताम् । प्रतीच्याम् । दिशि । गृहाः । पशवः । मार्जयन्ताम् । 'उदीच्याम् । दिशि । आपः । ओषधयः । वनस्पतयः । मार्जयन्ताम् । ऊर्ध्वायाम् । दिशि । यज्ञः। संवत्सर इति सं-वत्सरः । यज्ञपतिरिति यज्ञ-पतिः । प्राच्यां दिशि व्यवस्थिताः ये देवा ऋत्विजश्च ते इदानीं मार्जयन्तां आत्मानं मां च शोधयन्ताम् । 'एष वै दर्शपूर्णमासयोरवभृथः '* इत्यादि ब्राह्मणम् । एतेन दक्षिणायामित्यादयो व्याख्याताः । मासास्त्रिंशदहोरात्रात्मकाः । पितरस्स्वपित्रादयः, सोमपि तृमदादयश्च । गृहा आवसथाः येषु निवसन्ति जन्तवः । पशवः द्विविधाः ग्राम्या आरण्याश्च द्विचतुष्पदात्मकाः दोहनवहनादिकार्यक्षमाः । यज्ञो दर्शपूर्णमासादिः । संवत्सरो द्वादशमासात्मकः । यज्ञपतिर्यजमानः, सृष्टयादिकृत्प्रजापतिर्वा । शिष्टं स्पष्टम् ॥ *सं. १-७-५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy