________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता
23
उप प्रयोभिरा गतमिन्दवो वामुशन्ति हि । उपयामगृहीतोसीन्द्रवायुभ्यान्त्वैष ते योनिस्स॒जोषाभ्या
न्त्वा ॥ ५॥ उपेति । प्रयोभिरिति प्रयः-भिः । एति । गतम् । इन्द॑वः । वाम् । उशन्ति । हि । उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्रवायुभ्यामितीन्द्रवायु-भ्याम् । त्वा । एषः। ते । योनिः। सजोषोभ्यामिति स-जोषाभ्याम् । त्वा ॥५॥
आ वायो त्रिचत्वारिंशत् ॥ ४॥
अतः उपागतं उपागच्छतम् । 'बहुलं छन्दसि' . इति शपो लुक् । प्रयोभिरग्नस्सह यान्यस्मभ्यं दास्यसे* तान्यप्यादायागच्छतमिति । प्रीणातेरसुन्प्रत्ययः । हि यस्मादर्थे, यस्मादेते इन्दवः सोमा वां युवां उशन्ति कामयन्ते युवयोरागमनं प्रतीक्षन्ते, तस्मादुपागच्छतमिति । ' उन्देरिच्चादेः' इत्युप्रत्ययः, आदेरिः, 'यद्धितुपरं छन्दसि' इति निघातप्रतिषेधः ॥ इमामनुद्रुत्य उपयामगृहीतोसीन्द्रवायुभ्यां त्वेति गृह्णाति ॥
सादयति ॥ एष ते योनिः स्थानम् । ततस्सजोषाभ्यां समानप्रीतिभ्यां, सहसेवमानाभ्यां वा इन्द्रवायुभ्यां त्वामत्र साद
*ख-प्रयोभिः प्रीयमाणैः सह ये प्रीयन्ते.
For Private And Personal