SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता [का. १. प्र. ४. दधिषे पूर्वपेयम् । उपयामगृहीतो सि वायवे त्वेन्द्रवायू इमे सुताः। देव । दृधिषे । पूर्व पेयमिति पूर्व-पेयम् । उपयामगृहीत इत्युपयाम-गृहीतः । असि । वायवै । त्वा । 'इन्द्रवायू इतीन्द्र-वायू । हमे । सुताः । यत्र गच्छतीति । हे एवंगुणक वायो, तव सहस्रं नियुतोस्मानुपयन्तु तैस्सहितस्सन्नस्मत्सकाशमागच्छेत्यर्थः । उपसर्गद्वयेन क्रियापदमध्याहियते । उपो इत्युपशब्दस्यार्थे वर्तते । उपो अयामि समीपं प्रापयामि । किं ? सोमम् । अहं तुभ्यमागताय सोममुपहरामि । इ गतौ भौवादिकः अन्तर्भावितण्यर्थः, णिलुग्वा । कीदशमित्याह---अन्धः अदनीयम् । 'अदेर्नुम्धश्च ' इत्यसुन् । मद्यं मदकरम् । 'गदमदचर' इत्यादिना यत् , 'यतो नावः' इत्याद्युदात्तत्वम् । पुनश्च सोमो विशेष्यते-हे देव वायो यस्य पूर्व पेयं प्रथमपानं त्वं दधिषे दधासि आचरसि, यं लब्धा प्रथम पिबंसि, अन्यमग्रेपिबन्तं न क्षमसे यागेषु । ' उन्दसि लुडतिटः' इति दधातेर्लिट् । पिबतेर्भा वे 'अचो यत् ', कदुत्तरपदप्रकृतिस्वरत्वम्, 'यतो नावः ॥ __ एवमिमामनुद्रुत्य गृह्णाति ॥ हे सोम त्वमपि उपयामगृहीतोसि, अतो वायवे त्वां गृह्णामीति शेषः । जुष्टमिति केचिच्छेषमिच्छन्ति, इष्टं सेव्यं वा गृह्णामीत्यर्थः ॥ 'तस्मिन्नन्द्रवायवं गृह्णाति–इन्द्रवायू इति गायत्र्या ॥ हे इन्द्रवायू इमे सोमास्सुताः अभिषुताः युष्मदर्थ सम्यक्संस्कृताः, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy