________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ४.] :
भभास्करभाष्योपेता
281
वेदोसि वित्तिरसि विदेय कर्मासि करुणमसि क्रियास सनिरंसि स
नतासि सनेयै घृतवन्तं कुलायिन! भूयासम् । "वेदः । असि । वित्तिः । असि । विदेयं । कर्म । असि । करुणम् । असि । क्रियासम् । सनिः। असि । सनिता । असि । सनेयम् । घृतवन्तमिति घृत-वन्तम् । कुलायिनम् । रायः।
23 वेदेन्तर्वेदि निधीयमाने यजमानं वाचयति-वेदोसीति षट्दया शक्वर्या ॥ विदेय क्रियासं सनेयमिति त्रयाणां पादानामन्ताः । एते च तिङः परत्वान्न निहन्यन्ते । हे वेद वेदोसि यद्वित्तं वेद्यात्मकं वेत्तव्यं लब्धव्यं धनं तदेव त्वमासि; तल्लाभहेतुत्वात् । 'वेदेन वै देवा असुराणां वित्तं वेद्यम् '* इत्यादि ब्राह्मणम् । विन्दतेः कर्मणि घञ् । वित्तिलाभः, लाभसाधनं वा त्वमसि धनस्य । तस्मादेव भावे करणे वा क्तिन् । तादृशेन त्वयाऽहं विदेयाभिमतं धनं लप्सीय । विन्दतिस्स्वरितेत्, ‘लिङ्याशिष्यङ्' । कर्म अनुष्ठानं त्वमास ; त्वदधीनत्वात् । करुणमनुष्ठापकश्चासि । करोतरुनन्प्रत्ययः । तादृशेन त्वयाहं क्रियासं कर्ता भूयासम् । सनिस्संविभागः त्वमसि सनितासि संविभक्ता चासि, तादृशेन त्वयाहं सनेयं विन्देयं संविभजेयम् । अधुना परोक्षमुच्यते-घृतवन्तमाज्यवन्तं कुलायिनं • नीडवन्तं गृहवन्तं सहस्रिणं सहस्रवन्तं भूयिष्ठवन्तं पुत्रपश्वादिभिः,
*सं. १-७-४.
36
For Private And Personal