________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
278
तैत्तिरीयसंहिता
वि ते मुञ्चामि रशना वि रश्मीन
वियोक्त्रा यानि परिचर्तनानिधत्तासूर्यः । देवताम् । गमयतु । “वीति । ते । मुञ्चामि । रशनाः । वीति । रश्मीन् । वीति । योक्त्रा । यानि । परिचर्तनानीति परि-चर्तनानि । धत्तात्। अस्मासु । द्रविणम् । यत् । च । भद्रम् । प्रेति । प्रापयतु । रोहितादयोग्न्यादीनामश्वाः, एते वै देवाश्वाः '* इति च ब्राह्मणम् ॥ ___ परिधीन् विमुच्यमानाननुमन्त्रयते–वि ते मुञ्चामीति त्रिष्टुभा ॥ अश्वत्वेनाग्निस्स्तूयते । हे अग्ने अनेन परिधिविमोकेन ते तव यानि यन्त्रणानि तानि सर्वाण्यपि विमुञ्चामीति प्रतिपाद्यते । तत्रैकश्येनाहं रशनास्तव विमुञ्चामि । रशना व्यापिकाः । 'अशेरच' इति युच् । कक्ष्यावस्थिताश्शरीरपरिकर्मविशेषा उच्यन्ते । रश्मीन् प्रग्रहांश्च विमुञ्चामि, योकाणि योजनोपयुक्ता रज्जुविशेषाः तानि विमुञ्चामि । यानि चान्यानि तव परिचर्तनानि उरोवध्रादीनि परितो देहस्य पीडनानि । घृती हिंसादौ । तानिच मुञ्चामि यथाऽश्व एतैर्युक्तः कार्य करोति, तथा त्वं परिधिभिः परिहित एतैरेव युक्तः कार्यमकार्षीः । अधुना कार्य समाप्ते परिघिविमोकेन ऐतैरेव विमुक्तो नियन्त्रणो भव यथाऽश्वः कार्यसमाप्तौ विमुक्तरशनादिकस्स्वैरं धावति । ततश्च त्वमस्मासु द्रविणं धनं यच्चान्यद्भद्रं कल्याणमभीष्टं तत्तत्सर्वं धत्तात् धेहि स्थापय । किञ्च-नः अस्मान्देवतासु प्रबूतात्प्रब्रू हि । भागधान्भगस्य धातॄन्
*सं. १-७-४..
For Private And Personal