SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 272 तैत्तिरीयसंहिता का. 1. प्र. ६. पायुदानव्यानौ मे पाह्यक्षितोस्यक्षित्यै त्वा मा में क्षेष्ठा अमुवामु ष्मिन्लोके ॥ १० ॥ व्यानौ । मे। पाहि । अक्षितः । असि । आक्षत्यै । त्वा । मा । मे। क्षेष्ठाः । अमुत्र । अमुष्मिन्न् । लोके ॥ १० ॥ उपहवं जुष्टा नस्त्वा षट् ॥ ३ ॥ शब्दोन्तोदात्तः, 'स्वरितो वानुदात्ते पदादौ ' इत्येकादेशस्य संहितायां स्वरितत्वम् । ऊर्जस्वानन्नवान् पयस्वान् रसवान् स त्वं प्राणापानौ मम पाहि । मुखनासिकाभ्यां यो वायुर्निर्गच्छति स प्राणः, स च वायोस्तिर्यग्गमनशीलस्योर्ध्वगमनहेतुः जीवव्यापारविशेषो वेदितव्यः । अपानो नामावाग्गमनो वायुः । समानो नाम सर्वसाधारणो हृदये स्थितो वायुः । व्यानो नाम मनो व्याप्य स्थितो नाडीभिरन्नादिरसस्य नेता । उदान उर्ध्वगमनः शब्दस्योत्पादयिता । पुनानग्रहणमनुक्तजीववृत्तिप्रकारोपसङ्गहार्थम्, विविधाननात्मकत्वात्तेषाम् । अक्षितः अक्षीणोसि । अक्षित्यै इह चामुत्र चाक्षयाय त्वां ददामीति सामर्थ्यात् । स त्वममुत्र परलोके अस्मि मुष्मि नैन्द्रे ब्राह्मे प्राजापत्ये वा मा क्षेष्ठाः परलोके क्षयं मा गमः । यहा-मे ममामुष्मिन् लोके यदाहं परलोके भविष्यामि तदा तत्र ममोपभोगार्थम् । इह हि कृत्वा परत्र भुञ्जते । 'क्षीयते वा अमुष्मिन्लोके '* इत्यादि ब्राह्मणम् ॥ इति षष्ठे तृतीयोनुवाकः. *सं. १-७-३. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy