SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 266 तैत्तिरीयसंहिता [का. १. प्र. ६ साद्यो मेन्ति दूरैरातीयति तमेतेने जेष सुरूपवर्षवर्ण एहीमान्भद्रान्दुर्या५ अभ्येहि मामनुव्रता न्यु शीर्षाणि मृट्टमिड एह्यदित एहि पातु । सविता । अघश सादित्यघ-शसात् । *यः । मे । अन्ति । दूरे । अरातीयति । तम् । एतेन । जेषम् । 'सुरूपवर्षवर्ण इति सुरूप-वर्षवणे । एति । इहि । इमान् । भद्रान् । दुर्यान् । अभि । एति । इहि । माम् । अनुव्रतेत्यनु-व्रता। नीति । उ । शीर्षाणि । मुट्ठम् । इडै । एति । गतेः प्रकृतिस्वरत्वम् । किञ्च-दुरिष्टं अयुक्तरूपं प्रयाजादि ततो मां पातु । यहा-दुरिष्टं यथा न भवति तथा मां पातु दुरिष्टाहिनिवार्य मां रक्षतु । सविता चाघशंसात्पापरुचेः रक्षःप्रभृतेश्च पातु ॥ 'यजमानोऽवदीयमाने जपति-यो म इति ॥ यो मे ममान्ति अन्तिके दूरे वारातीयति अराप्तित्वमिच्छति, अरातिमात्मनो वास्माकमिच्छति तं राक्षसादिमनेन जेषं जयेयम् । जयतेलेटि 'सिब्बहुलं लेटि' शपो लुक् , 'लेटोडाटौ' 'इतश्च लोपः' । 'कादिलोपे बहुलम् ' इत्यन्तिकस्य कलोपः ॥ इडामाह्रियमाणामनुमन्त्रयते-सुरूपवर्षवर्ण इति ॥ शोभनरूपौ शोभनस्वभावौ वर्षवर्णौ यस्यास्सा तथोक्ता । 'पशवो वा For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy