SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . अनु. ३.] भटभास्करभाष्योपेता 267 सरस्वत्येहि रन्तिरस रमतिरसि सूनर्यसि जुष्टे जुष्टिं तेशीयोपहूत उपहवम् ॥ ८॥ तेशीय सा मै सत्याशीरस्य यज्ञस्य॑ भूयादरेता इहि । अदिते । एति । इहि । सरस्वति । एति । इहि । रन्तिः । असि । रम॑तिः । असि । सूनरी । असि । जुष्टै । जुष्टिम् । ते । अशीय । उपहूत इत्युप-हूते । उपहवमित्युप-हवम् ॥ ८॥ ते । अशीय । सा । मे । सत्या । आशीरित्या-शीः । अस्य । य॒ज्ञस्य॑ । भूयात् । अरैडता । मनसा । इडा' * 'वृष्टिर्वा इडा'। इति पशुवृष्टिहेतुत्वादिडाया एवमुच्यते । पूर्वपदस्याादा तवं छान्दसम् । ईदृशी एहि आगच्छ इमान्मदीयान्भद्रान् कल्याणान् भननीयान् दुर्यान् यज्ञगृहान् ; 'गृहा वै दुर्याः । इत्युक्तम् । किञ्च-मामनुव्रता अनुगुणा अभिप्रेतानि साधयन्त्यभ्येह्याभिमुख्येनागच्छ । असमानपदेपि रुर्दश्यते । अस्माकं शीर्षाणि निमृद्धं निर्दोषानस्मान् कुरुध्वमिति यावत्, यथास्माकं शिरः क्षाळितमनेनेति दोषाशङ्कायां वक्तारो भवन्ति । निमृदुमिति च एकवचनस्य स्थाने व्यत्वयेन बहुवचनम्, पूजार्थ वा वक्ष्यमाणगोभेदापेक्षम् । उ इति समुच्चयेवधारणार्थे वा । इडादयश्शब्दा गवां नामानि, यथा-' इडे रन्तेदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अनिये नामानि ' इति । *सं. १-७-१. सं. १-७-२. सं. ६-२-९. सं. ७-१-६. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy