________________
Shri Mahavir Jain Aradhana Kendra
264
www.kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailashsagarsuri Gyanmandir
मिन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये॑न्द्रया॒
व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒हं दे॑वय॒ - ज्यये॑न्द्रिया॒वी भूयासं महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ ज॒मान॑ महि॒मानं गमेय
[का. १. प्र. ६.
दे॒वय॒ज्ययेति॑ दे॒व - य॒ज्यया॑ । इ॒न्द्रि॒या॒वी । अन्नाद इ॒त्य॑न्न - अ॒दः । भूय॒स॒म् । इन्द्र॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ दे॒व - य॒ज्यया॑ । इ॒न्द्रि॒यावी । भूया॒स॒म् । " महेन्द्रस्येति महा - इ॒न्द्रस्य॑ । अ॒हम् । दे॒वय॒ज्ययेत दे॒वय॒ज्यया॑ । जे॒मान॑म् । म॒हि॒मान॑म् । ग॒मे॒य॒म् ।
24
देवताद्वन्द्वलक्षणे पदद्वयप्रकृतिस्वरत्वे प्रतिषिद्धे समासान्तोदात्तत्वे च कृते 'उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । इन्द्रियावी अन्नादश्च भूयासं, इन्द्रेणेन्द्रियावी अग्निनान्नादः । इन्द्रियशब्दान्मत्वर्थीयो विनिः, ' अन्येषामपि दृश्यते : इति दीर्घत्वम् ॥
23 ऐन्द्रस्य सान्नाय्यस्य — — इन्द्रस्येति ॥ इन्द्रियावान्, इन्द्रो हीन्द्रियस्य दाता भवति, इन्द्रेण हि दत्तमिन्द्रियमिति ॥
6
" माहेन्द्रस्य —— महेन्द्रस्येति ॥ सन्महत्' इति समासः । जेमानं महिमानं च गमेयम् । जेमा नेतृत्वम् । 'तुश्छन्दसि' इतीमनिच् छान्दस इकारलोपः, 'तुरिष्ठेमेयस्सु' इति तुलोपः । जनयितृत्वं वा । जाभावः । महत्त्वं महिमा ॥
"
For Private And Personal