________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता
237
दं वि चष्टे वैश्वानरो यतते सूर्येण। अब ते हेडो वरुण नमोभिरवं यज्ञेभिरीमहे हृविभिः । क्षय॑न॒स्मभ्य॑मसुर प्रचेतो राजनेनासि
शिश्रयः कृतानि । उर्दुत्तमं वरुण सूर्येण । अवेति । ते । हेर्डः । वरुण । नौभिरिति नमः-भिः । अवेति । यज्ञेभिः । ईमहे । हविर्भिरिति हविः-भिः । क्षयन्न् । अस्मभ्यमित्यस्मभ्यम् । असुर । प्रचेत इति प्र-चेतः। राजन्न्। एनासि । शिश्रथः । कृतानि । "उदिति । उत्त__ अथ त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या-अवते हेड इति त्रिष्टुप् ॥ हे वरुण ते तव हेडः क्रोधमभिशस्त्यादिहेतुं नमोभिर्नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविभिः पुरोडाशादिभिश्चावेमहे अपनयामः । ततस्त्वमस्मभ्यमस्मदर्थमेव हे क्षयन्निवसन् अस्मदुपकारायैव यतमान । क्षियतेर्व्यत्ययेन शप् , क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अस्मदीयानि कृतान्येनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥
"तत्रैव याज्या-उदुत्तममिति त्रिष्टुप् ॥ हे वरुण उत्तम पाशमस्मत्सकाशादुच्छूथाय उर्ध्वमुच्छ्थय । अधममवश्रथय अध
For Private And Personal