SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 228 तैत्तिरीयसंहिता का. १. प्र. ५. वेदिः परिधयश्च सर्वे यज्ञस्यायुरनु सं चरन्ति । त्रयस्त्रिात्तन्तवो ये वितत्निरे य इमं यज्ञङ् स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि परिचय इति परि-धयः । च । सर्वे । यज्ञस्य॑ । आयुः । अनु । समिति । चरन्ति । त्रयस्त्रियादिति त्रयः- त्रिशत् । तन्तवः । ये । वितत्निर इति वि-तत्निरे । ये । इमम् । यज्ञम् । स्वधयेति स्व-धया । ददन्ते । तेषाम् । छिन्नम् । प्रतीदन्येप्येवंजातीयास्सर्वे यज्ञस्यायुस्स्थानीयमिममनुसञ्चरन्ति अनुक्रमेण प्रत्यासन्ना भूत्वा चरन्ति इमं सेवमाना वर्तन्ते । ये च त्रयस्त्रिंशत्तन्तवः तन्तुस्थानीयाः पटमिव सूत्राणीमं यज्ञं वितत्निरे विस्तारयन्ति । के पुनस्ते? ये 'प्रजापतिर्मनसान्धोच्छतः '* इति आकूतिप्रभृतियज्ञस्य तनितारः प्रजापत्यादयः ते वेदितव्याः । आकूत्यादयो वा यज्ञावयवाः । त्रयश्च त्रिंशच्च । 'त्रेस्त्रयः ' इति सूत्रेण त्रेस्त्रयसोदशः, 'सङ्कया' इति पूर्वपदप्रकृतिस्वरत्वम् । विपूर्वात्तनोतेश्छान्दसे लिटि ‘तनिपत्योश्छन्दसि' इत्युपधालोपः । अथ ये च इमं यज्ञं स्वधयान्नेन हविरात्मना ददन्ते उत्पादयन्ति, उत्पाद्य वा देवेभ्यो दधति । ददतिर्भावादिकः । तेषां सर्वेषां यच्छिन्नं भेदननिमित्तेन प्राप्तं वैगुण्यं एतत्प्रतिदधामि अनयाहुत्या प्रतिविहितं करोमि । यद्वा-समर्थे प्रतिशब्दः; *सं. ४-४-९. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy