SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 224 तैत्तिरीयसंहिता [का. १. प्र. ५, धयः॥४४॥ पयस्वढीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सर सृज । अग्नै व्रतपते वृतं चरिओषधयः ॥ ४४ ॥ पय॑स्वत् । वीरुधाम् । पर्यः। अपाम् । पय॑सः । यत् । पर्यः । तेन । माम् । इन्द्र । समिति । सृज । अग्ने । व्रतपत इति व्रत मति-पयस्वतीरित्यनुष्टुभा ॥ पयस्वतीः पयस्वत्यः क्षीरवत्यस्सारवत्यो वा । पानरसेन तद्वत्य ओषधय ओषध्यः फलपाकान्ताः । ‘वा छन्दसि' पूर्वसवर्णदीर्घत्वम् । वीरुधां तु पयः पयस्वत् ओषधीनां पयोपि पयस्वत् सारवत् पेयत्वगुणवत् । विविधं रोहन्तीति वीरुधः लतादयः । एषोदरादिः । अपां वा सम्बन्धि यत्पयः ईदृशं पयसोपि पयः, यत्किञ्चित्पय ओषधीनां वीरुधां वा तस्यापि पयस्ततोपि सारवत् । तेन मां संसृज योजय हे इन्द्र । एतदुक्तं भवति-ओषधयो न केवलं पयस्वत्यः वीरुधान्तु पयोपि पयस्वत् , अपान्तु ततोपि पयस्वत्पय इति ॥ __व्रतमुपैति-अग्ने व्रतपत इति यजुषा ॥ हे अग्ने व्रतानां ब्रह्मचर्यादीनां पते पालयितः । 'नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' इति पूर्वस्याविद्यमानवत्वनिषेधावितीयं निहन्यते । व्रतं यथोक्तं चरिष्यामि तद्रूतमहं शकेयं चरितुं समर्थो भूया For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy