________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता
223
च्छिन्नं यज्ञ समिमं दधातु । या इष्टा उषसो निम्रर्चश्च तास्सं दधा
मि हविर्षा घृतेन । पय॑स्वतीरोषजुषताम् । आज्यम् । विच्छिन्नमिति वि-छिन्नम्। यज्ञम् । समिति । इमम् । दधातु । याः । इष्टाः। उषसः । निच इति नि-चंः । च । ताः । सामति । दधामि । हविषा । घृतेन । 'पय॑स्वतीः। विराड्वा ॥ पूर्वार्धर्ची व्याख्यातः । सर्वस्य मनो द्योतमानोयममिरिदमाज्यं जुषतां, जुषमाणश्चमं विच्छिन्नं यज्ञं सन्दधात्विति । या इष्टाः ‘तास्सन्दधामि' इति वचनात् मयि प्रोषिते प्रमत्ते वा या उषसः अन्यैर्यजमानैरिष्टाः, मयानिष्टा इत्यर्थसिद्धम् । यद्वाइष्टा यागार्हा मयानिष्टास्संधातुं या इष्टाः । इच्छतेर्निष्ठा । इषेर्वा गतिकर्मणः, इष्टाः गताः विना यागेनातिवाहिताः । उषसः अहरारम्भाः। प्रातश्च सायं चेति यावत् । भृचु म्लुचु स्तेयकरण, सम्पदादिलक्षणः विप् । तास्सन्दधामि अनेन घृतेनैव हविषा चरुणा सङ्गताः करोमि अनेन हविषा यागवतीः करोमि । अथापरम्-या इष्टाः पूर्वं मया यागवत्यः कृताः या उषसः उदया दिवसा इत्यर्थः । याश्च निम॒चः लुप्तयागा उषसस्ता उभयीरुषसः अनेन हविषा सन्दधामि संयोजयामि, यागवतीरेव सर्वाः करोमि, इष्टानिष्टविभागरहिताः करोमीत्यर्थः ॥
'अतः परमिष्टियाजमानकाण्डं प्राजापत्यम् । तत्राप आचा*सं. १-५-३. अत्र 'निZचः रात्र्यारम्भाः' इति भाष्यं गळितमिव भाति.
For Private And Personal