SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 222 तैत्तिरीयसंहिता [का. १. प्र. ५. मायुषा सं गौपत्येन सुहिते मा धाः। अयमग्निश्श्रेष्ठतमोयं भगवत्तमोय५ सहस्रसातमः । अस्मा अस्तु सुवी यंम् । मनो ज्योतिर्जुषतामाज्य विगौपत्येन । सुहित इति सु-हिते । मा। धाः । अयम् । अग्निः । श्रेष्ठतम इति श्रेष्ठ-तमः। अयम् । भगवत्तम इति भगवत्-तमः । अयम् । सहस्रसातम इति सहस्र-सातमः । अस्मै । अस्तु । सुवीर्यमिति सु-वीर्यम् । मनः। ज्योतिः । लुक् । यद्वा-सुहिते सम्यक् स्थापय । सुहित इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ आहवनीयमुपतिष्ठते-अयमित्यनुष्टुभा ॥ अयमग्निराहवनीयश्श्रेष्ठतमः अतिशयेन प्रशस्यतमः प्रशस्तानामपि प्रशस्ततमः । प्रकर्षवतामप्यतिशयविवक्षया द्वितीय आतिशायनिको भवत्येव, यथा 'श्रेष्ठतमाय कर्मणे' इति । अयं भगवत्तमः अतिशयेन धनवान् । तथाऽयं सहस्त्रसातमः सहस्रस्य बहुनो धनस्य ये सनितारस्सम्भक्तारो दातारो वा तानतिशेते । 'जनसन' इति विट् , 'विडनोरनुनासिकस्स्यात्' इत्यात्वम् । ईदृशोयमग्निरस्मै यजमानाय मह्यं सुवीर्यमस्तु शोभनवीर्यं धनमस्तु । ईदृशधनहेतुर्ममास्त्विति यावत् । ‘वीरवीरों च' इत्युत्तरपदाधुदात्तत्वम् । एवं सहस्रपदोपात्तं धनं सुवीर्यशब्देन विशेष्यते ॥ __ "विच्छिन्ननिमित्तो होमः—मनो ज्योतिरिति । त्रिष्टुबियं, *सं. १-१-१.3. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy